प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८ ॥
आदित्यः ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयति उद्गच्छति । एष हि एनम् आध्यात्मिकं चक्षुषि भवं चाक्षुषं प्राणं प्रकाशेन अनुगृह्णानः रूपोपलब्धौ चक्षुष आलोकं कुर्वन्नित्यर्थः । तथा पृथिव्याम् अभिमानिनी या देवता प्रसिद्धा सैषा पुरुषस्य अपानम् अपानवृत्तिम् अवष्टभ्य आकृष्य वशीकृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः । अन्यथा हि शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् । यदेतत् अन्तरा मध्ये द्यावापृथिव्योः यः आकाशः तत्स्थो वायुराकाश उच्यते, मञ्चस्थवत् । स समानः समानमनुगृह्णानो वर्तत इत्यर्थः । समानस्यान्तराकाशस्थत्वसामान्यात् । सामान्येन च यो बाह्यो वायुः स व्याप्तिसामान्यात् व्यानः व्यानमनुगृह्णानो वर्तत इत्यभिप्रायः ॥

कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमाह –

आदित्य इति ।

या देवता प्रसिद्धेति ।

अग्निदेवता पृथिव्येव यस्याऽऽयतनमग्निर्लोक इति श्रुतेरग्निसम्बद्धावगमादित्यर्थः ।

अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति –

अध एवापकर्षणेनेति ।

वृत्तार्थं स्तम्भादेरूर्ध्वमुखेन निखातस्य परितो विद्यमानरज्जुभिरध एवापकर्षणेन पतनाभाववदध एवापकर्षणेन शरीरस्य पतनाभावः सिध्यतीत्यर्थः ।

अनुग्रहमिति ।

शरीरधारणलक्षणमित्यर्थः ।

अन्यथेति ।

पृथिवीदेवताया विधारणाकरणे गुरुत्वादपानेनाध आकर्षणाच्च सावकाशे भूम्यादिपतनप्रतिबन्धकाभावस्थले पतेदित्यर्थः ।

अन्तरा यदाकाश इति वाक्यं व्याचष्टे –

यदेतदिति ।

यदिति क्लीबत्वं छान्दसमित्याह –

य आकाश इति ।

मञ्चस्थवदिति ।

मञ्चाः क्रोशन्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाशशब्देन तत्स्थो वायुर्लक्ष्यत इत्यर्थः ।

स समान इति ।

सामानाढिकर्ण्यमनुग्राह्यानुग्राहकयोरभेदोपचारादित्याह –

समानमनुगृह्णान इति ।

एवमुत्तरत्राप्यनुग्रहे हेतुमाह –

समानस्येति ।

शरीरान्तराकाशस्थत्वं समानस्य द्यावापृथिविव्यन्तराकाशस्थत्वं बाह्यवायोरित्यन्तराकाशस्थत्वं तयोस्तुल्यमित्यर्थः ।

वायुर्व्यान इत्यत्र त्वन्तराकाशस्थत्वं विशेषरहितं वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह –

सामान्येनेति ॥ ८ ॥