प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः । सहात्मना यथासङ्कल्पितं लोकं नयति ॥ १० ॥
मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन सङ्कल्पेनेन्द्रियैः सह प्राणं मुख्यप्राणवृत्तिमायाति । मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्यैवावतिष्ठत इत्यर्थः । तदा हि वदन्ति ज्ञातय उच्छ्वसिति जीवतीति । स च प्राणः तेजसा उदानवृत्त्या युक्तः सन् सहात्मना स्वामिना भोक्ता स एवमुदान उदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशात् यथासङ्कल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥

उक्तशरीरान्तरप्राप्तिमेवोत्क्रान्तिक्रमप्रदर्शनेन सपष्टीकर्तुं यच्चित्त इत्यादि वाक्यं तदपेक्षिताध्याहारं कुर्वन्व्याचष्टे –

मरणेति ।

यच्चित्त इति ।

यदेव देवतिर्यगादिशरीरं सम्यगिति चित्ते यस्य स यच्चित्त इत्यर्थः ।

प्राणं प्रत्यागमनं लोकव्यवहारेण प्रथयति –

तदेति ।

तेजसा तेजोऽनुगृहीतयोदानवृत्त्येत्यर्थः ।

एवम्भूतो भोक्तोदानसंयुक्तः प्राणः कं नयतीत्यपेक्षायां तमेव भोक्तारं नयतीति वदन्वाक्यार्थमाह –

स एवमिति ।

एवकारस्य तमेवेत्यन्वयः ।

यथासङ्कल्पितमिति ।

कर्मज्ञानादिसाधनानुष्ठानदशायां सङ्कल्पितं मरणकाले वासनारूपेण पुनरभिव्यक्तं लोकं देवादिशरीरमित्यर्थः ॥ १० ॥