एवं प्राणस्वरूपं निर्धार्य तदुपासनं विधत्ते –
यः कश्चिदिति ।
उत्पत्त्यादिभिर्यथोक्तविशेषणैर्विशिष्टम् । आत्मनः प्राणो जायते, मनःकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णाति । अात्मानं च पञ्चधा विभज्य पायूपस्थयोरपानं स्वस्वरूपं प्राणं चक्षुःश्रोत्रियोः, नाभौ समानम्, नाडीसमूहे व्यानम्, उदानं च सुषुम्नायां स्थापयति । उदानेनोत्क्रामति, बाह्यैः प्राणापानव्यानसमानोदानानुग्राहकैरादित्यपृथिवीदेवताकाशवायुतेजोरूपैरधिदैवमादित्यादिकमादित्यादिकृतानुग्रहैरध्यात्मं चक्षुर्वाक्श्रोत्रमनस्त्वक्चक्षुरादिग्राह्यमधिभूतं च धारयति । स एवोदानवृत्त्या भोक्त्रा च युक्तो भोक्तारं लोकान्तरं नयति । स एव च वरिष्ठः प्रजापतिरत्ता चेत्येवं प्राणं वेदेत्यर्थः ।
ऐहिकफलमुक्त्वाऽऽमुष्मिकफलमाह –
पतित इति ।
अमृतत्वं च नात्र मुख्यं किन्तु प्राणसायुज्यमेवेत्याह –
प्राणेति ।
इदं तु कामिनः, निष्कामस्य तु चित्तैकाग्र्यम् । तच्छुद्धिद्वारा मुख्यमेवामृतत्वं भवतीति द्रष्टव्यम् ॥ ११ ॥