एवं कर्मविद्यागतिश्रवणेन विरक्तस्य प्राणविद्यया चित्तैकाग्र्यतच्छुद्धिमतोऽत एव साधनचतुष्टयवतो मुख्याधिकारिणः परविद्योक्त्यर्थं प्रश्नत्रयमारभते –
अथ हैनमिति ।
पूर्वविद्ययैवामृतत्वोक्तेरुत्तरप्रश्नारम्भो व्यर्थ इत्यत आह –
प्रश्नत्रयेणेति ।
संसारमिति ।
अतो न तन्मुख्यममृतत्वमित्यर्थः ।
तस्य संसारत्वे व्याकृतत्वं हेतुमाह –
व्याकृतविषयमिति ।
व्याकृताश्रयं तदन्तर्गतमित्यर्थः ।
साध्यसाधनलक्षणमिति ।
साध्यसाधनसम्बन्धेन लक्ष्यतेऽभिव्यजत उत्पद्यत इति तथा । यद्वाऽपरब्रह्मणः प्राणस्य साध्यसाधनोभयात्मकत्वाद्वा तथा । तस्मादनित्यमित्यतोऽपि संसारत्वमित्यर्थः ।
वक्ष्यमाण आत्मा तु न तथेत्याह –
असाध्येत्यादिना ।
अतीन्द्रियविषयमिति ।
इन्द्रियविषयत्वमतिक्रान्तमित्यव्याकृतमकार्यमित्यर्थः ।
तत्र हेतुः –
अप्राणमिति ।
प्राणागोचरत्वेन तदात्मककर्मेन्द्रियागोचरत्वं मनोगोचरत्वेन ज्ञानेन्द्रियागोचरत्वमुक्तम् ।
सुखरूपतामाह –
शिवमिति ।
निवृत्तानर्थत्वमाह –
शान्तमिति ।
तत्र भावविकाररहितत्वं हेतुमाह –
अविकृतमिति ।
अनेनोत्पत्तिपरिणामवृद्धयो निषिद्धाः । अक्षरमित्यपक्षयविनाशौ निषिद्धौ । उत्पत्तिनिषेधेन तदनन्तरभाव्यस्तित्वं निषिद्धम् । अत्र सर्वत्र हेतुः ।
सत्यमिति ।
कालत्रयेऽप्येकरूपमित्यर्थः ।
तत्र “अथ परा यया तदक्षरमधिगम्यते”(मु. उ. १ । १ । ५) इत्यादि वाक्यं मानमाह –
परविद्यागम्यमिति ।
दिव्यो ह्यमूर्तः पुरुष इति मन्त्रमप्याह –
पुरुषाख्यमिति ।
कथं पुरुषशब्दोदितं पूर्णत्वं बाह्याभ्यन्तरवस्तुभेदादत आह –
सबाह्येति ।
स एव बाह्याभ्यन्तरात्मकस्तद्व्यतिरेकेण तदुभयं नास्तित्यर्थः ।
प्रश्नत्रयमिति ।
यद्यपि पञ्चमः प्रश्नोऽपरविद्याविषय एव प्रणवोपासनविषयत्वात्तथाऽपि तस्य क्रममुक्तिफलत्वेन निर्विशेषात्मन्येव सविशेषब्रह्मप्राप्तिद्वारा पर्यवसनात्सोऽपि परविषय एवेति भावः ।
एवं सामान्येन प्रश्नत्रयस्यापि सम्बन्धमुक्त्वा चतुर्थप्रश्नस्य प्रातिस्विकसम्बन्धमाह –
तत्रेति ।
यस्मादित्यस्य किंलक्षणं वा तदक्षरमिति तच्छब्देनान्वयः ।
उक्तमिति ।
यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपास्तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तीति मन्त्रेणेत्यर्थः ।
एतद्विवक्षयेति ।
मन्त्रोक्तार्थविस्तारानुवादित्वादस्य ब्राह्मणस्येति भावः । अत्राक्षरस्वरूपस्यैव विवक्षितत्वात्तन्निर्णयार्थं कानि स्वपन्तीत्यादिप्रश्नो जागरितादिना धर्मिविशेषनिर्धारणार्थः, अन्यथा तेषामात्मधर्मत्वशङ्कायां तन्निर्विशेषत्वनिर्णयासिद्धेः । भावानां स्वरूपविभागादिविवक्षा तु ताः पुनः पुनरुदयतः प्रचरन्तीति दृष्टान्तबलाद्यत्रैकीभावस्ततो विभागेन निर्गमनमित्यक्षर एकीभूतानां पृथिव्यादिकार्यकरणानामक्षराद्विभागप्रतीतेस्तावन्मात्रेण भाष्य उक्तेति द्रष्टव्यम् । तत्राऽऽद्यप्रश्नेन जागरितस्य धर्मी पृष्टः । स्वप्ने यस्य व्यापारोपरमे जागरितं नास्ति स तस्य धर्म इति निश्चेतुं शक्यत्वात् । द्वितीयेनावस्थात्रयेऽपि शरीररक्षणं कस्य धर्म इति पृष्टम् । जाग्रतोऽनुपरतव्यापारस्य प्राणस्य देहरक्षकत्वोपपत्तेः । तृतीयेन स्वप्नस्य धर्मी पृष्टः । चतुर्थेन सुषुप्तिधर्मी, सुखमहमस्वाप्समिति सुप्तोत्थितस्य परामर्शे सुखस्य सुषुप्तिसम्बन्धावगमात् । पञ्चमप्रश्नेनावस्थात्रयविनिर्मुक्तमवस्थात्रयपर्यवसानभूमिरूपं तुरीयमक्षरं पृष्टमिति विवेकः ।
कार्येति ।
कार्यं शरीरं प्राणो वा, करणानि मनआदीनि ।
पदार्थानुक्त्वा वाक्यार्थं पिण्डीकृत्याऽऽह –
तत्किमिति ।
तत्पदं पूर्वापरयोः सम्बध्यते ।
प्रसन्नमिति ।
विषयसम्पर्ककालुष्यराहित्यम् ।
निरायासेति ।
निरायासेन विक्षेपाभावमात्रेण लक्ष्यतेऽभिव्यज्यते निर्वातस्थापितदीपालोकवदनाबाधं विनाशरहितं सत्यमात्मस्वरूपमित्यर्थः ।
एतदिति ।
सुषुप्ते प्रकाशमानं सुखमहमस्वाप्समितिपरामर्शमूलभूतमित्यर्थः ।
तस्मिन्काल इति ।
यद्यपि पञ्चमेन प्रश्नेन तुरीयं पृच्छ्यते न सुषुप्तिस्तथाऽपि संसारदशायां सर्वोपाधिरहिततुरीयावस्थाभावेन विवेकत एव तस्य प्रदर्शनीयत्वात्तत्सुषुप्तावज्ञाने सत्यपीतरोपाधिराहित्येन तत्रैव सर्वोपाधिविवेककरणेन तुरीयप्रदर्शनस्य सुकरत्वात्तस्मिन्काले तुरीयप्रदर्शनार्थं सर्वसम्प्रतिष्ठोक्तेति –
सम्यगेकीभूता इति ।
तदात्मभावप्राप्त्या विलयं गता इत्यर्थः ।
मधुनि रसवदिति ।
यथा नानापुष्परसा मधुन्येकी भवन्ति तद्वदित्यर्थः ।
विवेकाभावमात्रेण दृष्टान्तावुक्तौ, तत्र सर्वात्मना लयाभावादित्याह –
विवेकानर्हा इति ।
पूर्वं विवेकानर्हाः सन्तः पञ्चात्सम्प्रतिष्ठिता इत्यर्थः । न चानेनापि प्रश्नेनाविद्यावासनाभिरविविक्तः सौषुप्त एव पृष्ट इति शङ्क्यम् । पर आत्मन्यक्षरे सम्प्रतिष्ठानादेष हि द्रष्टेत्याद्यज्ञानप्रतिबिम्बितस्य भोक्तुरपि सम्प्रतिष्ठाया अभिधास्यमानत्वादच्छायमित्यज्ञानाभावोक्तेश्च तुरीयमेव पृष्टमिति भावः । ननु कार्यकारणव्यतिरिक्ते सम्प्रतिष्ठानाधिकरणे सामान्येन कस्मिंश्चिदवगते कस्मिन्सम्प्रतिष्ठिता इति विशेषप्रश्नो घटते । न च तस्यावगतिरस्ति । न च सम्प्रतिष्ठानस्य साधिकरणत्वेन सामान्येनाधिकरणावगतिरस्तीति वाच्यम् । तत्तदुपादानानामेवाचेतनानां तदधिकरणत्वेन तदतिरिक्तस्य चेतनस्यासिद्धिरिति शङ्कते ।
नन्विति ।
दात्रं नाम सस्यादिलवणार्थः शस्त्रविशेषः ।
स्वात्मनीति ।
सोपादान इत्यर्थः ।
सुषुप्तपुरुषाणां करणानामिति ।
सुषुप्तपुरुषाणां यानि करणानि तेषामित्यर्थः । एष हि द्रष्टेत्यादिना पुरुषाणामप्येकीभावस्य वक्ष्यमाणत्वाद्वा पुरुषाणामित्युक्तम् । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । प्रष्टुः शङ्कायाः कुतः प्राप्तिरित्यन्वयः ।
संहतानां परार्थत्वेन व्यापृतत्वात्संहतत्वेन हेतुना परस्मिंश्चेतने सामान्येनावगते प्रष्टुर्विशेषप्रश्नो युक्त इत्याह –
युक्तैव त्विति ।
स्वाम्यर्थानि सङ्घाताभिमान्यर्थानीत्यर्थः ।
आशङ्कानुरूप इति ।
मनसि विद्यमानाशङ्कानुरूपो वाचिकः प्रश्न इत्यर्थः ।
अत्र सम्प्रतिष्ठानविशिष्ट आत्मा न पृष्टः किन्तु तदुपलक्षितः केवल आत्मा पृष्ट इति व्याक्यतात्पर्यमाह –
अत्र त्विति ।
भवन्तीत्यनन्तरं पृष्टमिति शेषः ॥ १ ॥