प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥
तस्मै स ह उवाच आचार्यः । शृणु हे गार्ग्य, यत्त्वया पृष्टम् । यथा मरीचयः रश्मयः अर्कस्य आदित्यस्य अस्तम् अदर्शनं गच्छतः सर्वाः अशेषतः एतस्मिन् तेजोमण्डले तेजोराशिरूपे एकीभवन्ति विवेकानर्हत्वमविशेषतां गच्छन्ति, ताः मरीचयस्तस्यैवार्कस्य पुनः पुनः उदयतः उद्गच्छतः प्रचरन्ति विकीर्यन्ते यथायं दृष्टान्तः । एवं ह वै तत् सर्वं विषयेन्द्रियादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवो मनः, तस्मिन्स्वप्नकाले एकीभवति मण्डले मरीचिवदविशेषतां गच्छति । जिजागरिषोश्च रश्मिवन्मण्डलान्मनस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मनस्येकीभूतानीव करणव्यापारादुपरतानि तेन तस्मात् तर्हि तस्मिन्स्वापकाले एषः देवदत्तादिलक्षणः पुरुषः न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते न अभिवदते न आदत्ते न आनन्दयते न विसृजते न इयायते स्वपिति इति आचक्षते लौकिकाः ॥

यत्त्वया पृष्टं तच्छृण्वित्यन्वयः । तस्यैवार्कस्य ता मरीचय इत्यन्वयः ।

विकीर्यन्त इति ।

दशदिक्षु क्षिप्यन्त इत्यर्थः ।

स्वप्नेऽपि चक्षुरादिव्यापारोपलब्धेरेकीभावोऽसिद्ध इत्याशङ्क्य वासनामयेन्द्रियव्यापरोपलब्धावपि बाह्यशब्दादिश्रवणादिव्यापाराभावेन तं साधयितुं तेनेति वाक्यं व्याख्याति –

यस्मादिति ।

श्रोत्रादीनामेकीभावो नाम स्वस्वव्यापारं विहाय मनस्तन्त्रतयाऽवस्थानमात्रं न तु मुख्यमेकत्वं तेषां मनःप्रकृतिकत्वाभावेनाप्रकृतौ तदनुपपत्तेरित्यभिप्रेत्येवकारः प्रयुक्तः ।

नेयायत ।

इणो गत्यर्थस्य यङन्तस्य रूपमेतन्न गच्छतीत्यर्थः ॥ २ ॥