प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
प्राणाग्नय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥
सुप्तवत्सु श्रोत्रादिषु करणेषु एतस्मिन् पुरे नवद्वारे देहे प्राणाग्नयः प्राणा एव पञ्च वायवोऽग्नय इवाग्नयः जाग्रति । अग्निसामान्यं हि आह — गार्हपत्यो ह वा एषोऽपानः कथमिति, आह । यस्मात् गार्हपत्यात् अग्नेरग्निहोत्रकाले इतरोऽग्निराहवनीयः प्रणीयते प्रणयनात् , प्रणीयते अस्मादिति प्रणयनो गार्हपत्योऽग्निः, तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां सञ्चरति अत आहवनीयस्थानीयः प्राणः । व्यानस्तु हृदयाद्दक्षिणसुषिरद्वारेण निर्गमाद्दक्षिणदिक्सम्बन्धात् अन्वाहार्यपचनः दक्षिणाग्निः ॥

कानि स्वपन्तीत्यस्य सविषयाणि बाह्यकारणानि स्वपन्त्युपरमन्तेऽतस्तेषामेव जागरणं धर्म इत्युत्तरमुक्त्वा कानि जाग्रतीत्यस्योत्तरमाह –

सुप्तवत्स्विति ।

प्राणानामग्नित्वं गौणमित्याह –

अग्नय इवेति ।

अपानस्य गार्हपत्यत्वे यद्गार्हपत्यात्प्रणीयते प्रणयनादितीदं वाक्यं व्यवहितापि हेतुत्वेन योजयति –

यस्मादिति ।

प्रणायनादिति पदं गार्हपत्यविशेषणमित्याह –

प्रणयनो गार्हपत्य इति ।

तत्सदृशमाहवनीयः प्राण इति वाक्यं सादृश्याभिध्यानपूर्वं व्याचष्टे –

तथेति ।

गार्हपत्यत्वेनोक्तेऽपानेऽन्तर्गच्छति सति बहिर्गच्छन्प्राणस्ततो निर्गच्छत इव लक्ष्यत इति प्राण आवहनीय इत्यर्थः ।

परित्यक्तं व्यानोऽन्वाहार्यपचन इति वाक्यमिदानीं व्याचष्टे –

व्यानस्त्विति ।

छान्दोग्ये गायत्रीविद्यायां तस्य वा एतस्य हृदयस्य पञ्च देवसुषय इत्युपक्रभ्याथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रमित्यनेन व्यानस्य दक्षिणसुषितो निर्गमनमुक्तमित्यस्यानाहार्यपचनसादृश्यं दक्षिणदिक्सम्बन्धित्वं व्यानस्येति व्यानोऽन्वाहार्यपचन इत्यर्थः ॥ ३ ॥