प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४ ॥
अत्र च होता अग्निहोत्रस्य यत् यस्मात् उच्छ्वासनिःश्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव तु एतौ आहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायुरग्निस्थानीयोऽपि होता चाहुत्योर्नेतृत्वात् । कोऽसौ ? स समानः । अतश्च विदुषः स्वापोऽप्यग्निहोत्रहवनमेव । तस्माद्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि च भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके । अत्र हि जाग्रत्सु प्राणाग्निषूपसंहृत्य बाह्यकरणानि विषयांश्चाग्निहोत्रफलमिव स्वर्गं ब्रह्म जिगमिषुः मनो ह वाव यजमानः जागर्ति । यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहारात्स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाद्यजमानो मनः कल्प्यते । इष्टफलं यागफलमेव उदानः वायुः । उदाननिमित्तत्वादिष्टफलप्राप्तेः । कथम् ? सः उदानः एनं मनआख्यं यजमानं स्वप्नवृत्तिरूपादपि प्रच्याव्य अहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्म अक्षरं गमयति । अतो यागफलस्थानीयः उदानः ॥

अत्र चेति ।

अग्निहोत्रस्य होता होमस्य कर्ता, ऋत्विगुच्यते उत्तरवाक्येनेति शेषः ।

अत्रोच्छ्वासनिश्वासयोराहुतित्वस्य पूर्वमसिद्धत्वेन सिद्धवन्निर्देशायोगात्स समान इति तच्छब्दानन्वयाच्च वाक्यत्रयं कृत्वाऽन्वयत्रयेण योजयति –

यद्यस्मादिति ।

उच्छ्वासनिश्वासावित्यनन्तरमाहुती इति पदं भाष्येऽध्याहृत्यैतावुच्छ्वादनिश्वादावाहुती आहवनीयाधिकरणाग्निहोत्राहुतीव द्वित्वसाम्यादेवेत्येकोऽन्वयः । अनन्तरं भाष्ये तुशब्दश्चार्थे । श्रुतिगत इतिशब्दस्तस्मादित्यर्थे । यस्मादेतावाहुती यस्माच्चैतौ समं नयति शरीरस्थितिभावाय साम्येन नयति प्रवर्तयति यो वायुर्यथाऽग्निहोत्रे होमकर्ताऽऽहुतिद्वयमाहवनीयं प्रति समं नयति प्रापयति तद्वत्तस्मादाहुत्योर्नेतृत्वात्स वायुर्होतेति यच्छब्दहोतृशब्दाध्याहारेण द्वितीयोऽन्वयः । कोऽसौ वायुरिति तद्विशेषप्रश्ने स होता वायुः स समान इति तृतीयोऽन्वय इति विभागः ।

ननु प्राणाग्नय इत्यत्र सर्वेषां प्राणानामग्नित्वोक्तेः कथमिह समानस्य हेतृत्वमुच्यत इत्याशङ्क्योक्तम् –

अग्निस्थानीयोऽपीति ।

अग्नित्वेनोक्तोऽपीति भावः ।

होता चेति ।

चकारोऽवधारणे, होतैवेत्यर्थः । आहुतिनेतृत्वाद्धोतृत्वे स्थितेऽग्नित्वोक्तिश्छत्रिन्यायेनाग्न्यनग्निसमुदाये लाक्षणिकीत्यर्थः ।

अवस्थात्रयवर्तिनामुच्छ्वासनिश्वासप्राणानां चाग्निहोत्रावयवत्वसम्पादानस्य नोपासनं प्रयोजनं निर्विशेषात्मप्रकरणत्वात्तद्विध्यदर्शनाच्च, किं त्विन्द्रियाण्युपरमन्ते प्राणा जाग्रतीत्येवं त्वम्पदार्थशोधनरूपस्य ज्ञानस्य स्तुतिरेवेत्याह –

अतश्चेति ।

सर्वदेति ।

वाजसनेयके हि वाक्चितः प्राणश्चितश्चक्षुश्चित इत्यादिना सर्वप्राणव्यापारेषु प्रत्येकमग्निचितत्वदृष्टिं विधायैवन्दृष्टिमतः सर्वाणि भूतान्तस्य स्वापकालेऽपि चयनं कुर्वन्तीति सा दृष्टिः स्तुता तद्वदिहापीत्यर्थः ।

अत्र हीति ।

अत्र मनो यजमानः कल्प्यत इति व्यवहितान्वयः ।

तत्कल्पनायां हेतुद्वयमाह –

यजमानवदिति ।

हेतुद्वयं साधयति ।

जाग्रत्स्विति ।

अत्र स्वप्नकाले विषयान्करणानि चोपसंहृत्य मनो जागर्ति, प्राधान्येन स्वव्यापारं कुर्वद्वर्तते । अग्निहोत्रफलं स्वर्गं जिगमिषुर्यजमान इव सुषुप्तिकाले स्वर्गरूपब्रह्म जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्यनन्तरमिवशब्दो द्रष्टव्यः । हवावशब्देन तत्प्रसिद्धमित्युक्तम् ।

इष्टेति ।

उदाननिमित्तकमरणान्तरं यागादिफलप्राप्तेस्तस्य तन्निमित्तत्वात्कारणे कार्योपचारादुदान इष्टफलत्वेन कल्प्यत इत्यर्थः । न केवलं मरणद्वारा यागफलप्रापकत्वमुदानस्य किं त्वेतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः सर्वयागफलानामपि ब्रह्मात्मकत्वात्तद्ब्रह्मप्रापकत्वादपि ।

अहरहरिष्टफलप्रापकत्वमुदानस्येति प्रश्नपूर्वकमाह –

कथमिति ।

स्वर्गमिवेति ।

स्वर्गमेवेत्यर्थः । स्वर्गयागफलात्मकस्वरूपमेव ब्रह्माक्षरं गमयतीत्यर्थः । यद्यप्यहरहर्ब्रह्मप्राप्तिर्न यागसाध्या यागरहितानामपि तत्प्राप्तेस्तथाऽपि ब्रह्मण एव सर्वयागफलत्वेन तत्प्रापकस्योदानस्येष्टफलप्रापकत्वमस्तीति भावः । न चोदानस्य कथं तत्प्रापकत्वमिति शङ्क्यम् । तस्य सुषुम्नानाडीचारित्वेन स मनस्तन्नाडीं प्रवेशयंस्तद्गतं ब्रह्म प्रापयतीत्युपपत्तेः ॥ ४ ॥