कस्यैतत्सुखं भवतीत्यस्योत्तरं तदपेक्षितं वदन्नाह –
स यदेति ।
पित्ताख्येनेति ।
इदमुपलक्षणं चिद्रूपेण ब्रह्मण चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इति श्रुत्यन्तरेण प्राणशब्दिते ब्रह्मणि तस्य लयाभिधानात् ।
तिरस्कृतेति ।
वासनाभिव्यक्तौ द्वारं स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरतं भवति तेजःशब्दितब्रह्मचैतन्यसम्बन्धादित्यर्थः ।
रश्मय इति ।
वासना इत्यर्थः ।
अविशेषविज्ञानेति ।
सामान्यचैतन्यरूपेणेत्यर्थः । चेतनाशब्दितसामान्यवृत्तिरूपेण वा ।
अनेन सुषुप्त उक्त इत्याह –
तदेति ।
नन्वथैतत्सुखं भवतीत्ययुक्तं जन्यसुखस्य तदानीमसम्भवात्स्वरूपसुखस्य पूर्वमपि समत्वेन तदा भवतीत्यनुपपत्तेरित्याशङ्क्य स्वरूपसुखमेव विशेषविज्ञानरूपविक्षेपाभावे निर्वातस्थदीपप्रभावत्सम्यक्प्रकाशते तदपेक्षमेतद्वचनमित्याह –
यद्विज्ञानमिति ।
विज्ञानरूपं स्वरूपसुखमित्यर्थः ॥ ६ ॥