प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्त एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ७ ॥
एतस्मिन्काले अविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति । तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह — स दृष्टान्तः यथा येन प्रकारेण हि सोम्य प्रियदर्शन, वयांसि पक्षिणः वासार्थं वृक्षं वासोवृक्षं प्रति सम्प्रतिष्ठन्ते गच्छन्ति, एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वं परे आत्मनि अक्षरे सम्प्रतिष्ठते ॥

अनेनाऽऽनन्दमयकोशशब्दितमनभिव्यक्तमनआदिवासनावदज्ञानं सुषुप्तधर्मीत्युक्तं पञ्चमप्रश्नस्योत्तरं तुरीयस्वरूपं विवेकसौकर्याद्विविच्यात्रैवोच्यत इत्याह –

एतस्मिन्निति ।

अन्यथेति ।

पूर्वमन्यथा विभाव्यमानमित्यर्थः ।

मात्रानुप्रवेशेनेति ।

मात्राणां विवेकतोऽक्षरेऽनुप्रवेशेनेत्यर्थः ॥ ७ ॥