एष हि द्रष्टेत्यादिनोपहितस्वरूपमुच्यत इत्याह –
अतः परमिति ।
द्रष्टेति ।
उपाधिकृतमपि द्रष्टृत्वादिकमुपाधिव्यतिरिक्तेऽनुपहित आत्मन्यारोपितं स्फटिके लौहित्यवदस्तीत्युपाधिभिन्नोऽप्यात्मा द्रष्टेत्यादिनोक्तः ।
विज्ञानात्मेत्यत्र द्रष्टेत्यादाविव कर्तृवाचकतृचोऽभावाद्विज्ञानं यज्ञं तनुत इत्यादाविव बुद्धेरभिधाने पौनरुक्त्यमाशङ्क्याऽऽह –
विज्ञानमिति ।
करणभूतमिति ।
विज्ञानमय इत्यादावित्यर्थः ।
एष हीति हिशब्दश्चशब्दार्थकः स च सम्प्रतिष्ठित इति क्रियनुकर्षणार्थ इति वदन्द्रष्टुरात्मनः पृथिव्यादिवत्स्वरूपेणाक्षरे लयो न सम्भवतीत्याशङ्क्योपाधिलय उपहितरूपाभावमेवास्य लय इत्याह –
स चेति ॥ ९ ॥