प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥
तदेकत्वविदः फलमाह — परमेव अक्षरं वक्ष्यमाणविशेषणं प्रतिपद्यते इति । एतदुच्यते — स यो ह वै तत् सर्वैषणाविनिर्मुक्तः अच्छायं तमोवर्जितम् , अशरीरं नामरूपसर्वोपाधिशरीरवर्जितम् , अलोहितं लोहितादिसर्वगुणवर्जितम् , यत एवमतः शुभ्रं शुद्धम् , सर्वविशेषणरहितत्वादक्षरम् , सत्यं पुरुषाख्यमप्राणममनोगोचरं शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः न तेनाविदितं किञ्चित्सम्भवति । पूर्वमविद्यया असर्वज्ञ आसीत् । पुनर्विद्यया अविद्यापनये सर्वः भवति । तत् अस्मिन्नर्थे एषः श्लोकः मन्त्रो भवति उक्तार्थसङ्ग्राहकः ॥

एवं जाग्रदादीनामन्यधर्मत्वोक्त्या शोधिततुर्यात्मानुवादेन तस्याक्षरैक्याभिधानपुरःसरं तज्ज्ञानस्य फलमुच्यत उत्तरवाक्येनेत्याह –

तदेकत्वेति ।

वक्ष्यमाणलक्षणमक्षरं प्रतिपद्यत इत्येवंरूपं फलमाहेत्यन्वयः । उत्तरवाक्यमिति शेषः ।

उक्तमर्थः श्रुत्यक्षरारूढमाह –

एतदुच्यत इति ।

स इत्यस्यार्थमाह –

सर्वेति ।

अत्राधिकारिणो दुर्लभत्वं स यो ह वा इत्यनेनोक्तम् । स यः कश्चिदेवापूर्ववत्तदच्छायादिविशेषणमक्षरं वेदयत इत्येकं वाक्यं समापनीयम् । यस्तु वेदयते स सर्वज्ञ इति वाक्यान्तरं कार्यमन्यथा यच्छब्दद्वयानन्वयात् । आद्यवाक्येऽच्छायादिविशेषणत्रयेण कारणसूक्ष्मस्थूलशरीरत्रयनिराकरणेनावस्थात्रयनिराकरणेनावस्थात्रयराहित्यमनूद्यते । लोहितादिगुणवर्जितमित्यनेन तद्गुणकस्थूलशरीरवर्जितमिति प्रतीतेः । शुभ्रमित्यनेन तमेव तुरीयमनूद्य तस्याक्षरसामानाधिकरण्येनैक्यमुक्तमिति विवेकः ।

अत्राक्षरमित्यनेनाक्षरं पुरुषं वेद सत्यं स बाह्याभ्यन्तरो ह्यजोऽप्राणो ह्यमनाः शुभ्र इति मन्त्रोक्तानि सर्वाणि विशेषणान्यात्मोपलक्षणान्यात्मोपलक्षणार्थं सङ्गृहीतानीत्याह –

सत्यमित्यादिना ।

यस्तु सर्वत्यागीत्यत्रापि वाक्ये वेदयत इत्यस्यानुषङ्गः । अत्र सर्वज्ञ इत्यनेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रतिज्ञातं सर्वविज्ञानमुक्तम् ।

सर्वात्मत्वस्य ज्ञानजन्यत्वेऽनित्यत्वं स्यादत आह –

पूर्वमिति ।

एवं चाऽऽरोपनिवृत्तिद्वाराऽभूततद्भावो विवक्षित इत्याह –

सर्वो भवतीति ॥ १० ॥