एवं जाग्रदादीनामन्यधर्मत्वोक्त्या शोधिततुर्यात्मानुवादेन तस्याक्षरैक्याभिधानपुरःसरं तज्ज्ञानस्य फलमुच्यत उत्तरवाक्येनेत्याह –
तदेकत्वेति ।
वक्ष्यमाणलक्षणमक्षरं प्रतिपद्यत इत्येवंरूपं फलमाहेत्यन्वयः । उत्तरवाक्यमिति शेषः ।
उक्तमर्थः श्रुत्यक्षरारूढमाह –
एतदुच्यत इति ।
स इत्यस्यार्थमाह –
सर्वेति ।
अत्राधिकारिणो दुर्लभत्वं स यो ह वा इत्यनेनोक्तम् । स यः कश्चिदेवापूर्ववत्तदच्छायादिविशेषणमक्षरं वेदयत इत्येकं वाक्यं समापनीयम् । यस्तु वेदयते स सर्वज्ञ इति वाक्यान्तरं कार्यमन्यथा यच्छब्दद्वयानन्वयात् । आद्यवाक्येऽच्छायादिविशेषणत्रयेण कारणसूक्ष्मस्थूलशरीरत्रयनिराकरणेनावस्थात्रयनिराकरणेनावस्थात्रयराहित्यमनूद्यते । लोहितादिगुणवर्जितमित्यनेन तद्गुणकस्थूलशरीरवर्जितमिति प्रतीतेः । शुभ्रमित्यनेन तमेव तुरीयमनूद्य तस्याक्षरसामानाधिकरण्येनैक्यमुक्तमिति विवेकः ।
अत्राक्षरमित्यनेनाक्षरं पुरुषं वेद सत्यं स बाह्याभ्यन्तरो ह्यजोऽप्राणो ह्यमनाः शुभ्र इति मन्त्रोक्तानि सर्वाणि विशेषणान्यात्मोपलक्षणान्यात्मोपलक्षणार्थं सङ्गृहीतानीत्याह –
सत्यमित्यादिना ।
यस्तु सर्वत्यागीत्यत्रापि वाक्ये वेदयत इत्यस्यानुषङ्गः । अत्र सर्वज्ञ इत्यनेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रतिज्ञातं सर्वविज्ञानमुक्तम् ।
सर्वात्मत्वस्य ज्ञानजन्यत्वेऽनित्यत्वं स्यादत आह –
पूर्वमिति ।
एवं चाऽऽरोपनिवृत्तिद्वाराऽभूततद्भावो विवक्षित इत्याह –
सर्वो भवतीति ॥ १० ॥