प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति ॥ १ ॥
अथ ह एनं शैब्यः सत्यकामः पप्रच्छ । अथेदानीं परापरब्रह्मप्राप्तिसाधनत्वेन ओङ्कारस्योपासनविधित्सया प्रश्न आरभ्यते । सः यः कश्चित् ह वै भगवन् , मनुष्येषु मनुष्याणां मध्ये तत् अद्भुतमिव प्रायणान्तं मरणान्तं यावज्जीवमित्येतत् ; ओङ्कारम् अभिध्यायीत आभिमुख्येन चिन्तयेत् । बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशितब्रह्मभावे ओङ्कारे आत्मप्रत्ययसन्तानाविच्छेदो भिन्नजातीयप्रत्ययान्तराखिलीकृतो निवातस्थदीपशिखासमोऽभिध्यानशब्दार्थः । सत्यब्रह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसन्तोषामायावित्वाद्यनेकयमनियमानुगृहीतः सः एवं यावज्जीवव्रतधारणः, कतमं वाव, अनेके हि ज्ञानकर्मभिर्जेतव्या लोकास्तिष्ठन्ति ; तेषु तेन ओङ्काराभिध्यानेन कतमं सः लोकं जयतीति ॥

एवं चतुर्थप्रश्नेनोत्तमाधिकारिणः पदार्थशोधनपूर्वकवाक्यार्थज्ञानेनाक्षरप्राप्तिमुक्त्वाऽत्रानधिकारिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनुदित्यादिमन्त्रसूचितं ब्रह्मलोकप्राप्तिद्वारा क्रमेणाक्षरप्राप्त्यर्थमोङ्कारोपासनं वक्तुं पञ्चमप्रश्नमवतारयति –

अथ हैनमिति ।

इदानीमिति ।

गार्ग्यप्रश्ननिर्णयानन्तरमित्यर्थः ।

परेति ।

अपरब्रह्मलोकप्राप्तिक्रमेण परब्रह्मलोकप्राप्तिसाधनत्वेनेत्यर्थः ।

तदद्भुतमिवेति ।

तदिति क्रियाविशेषणं तादृशमभिध्यानमिति, तेन विशेषणेनाद्भुतत्वं दुष्करत्वं भातीत्यर्थः ।

अभिध्यानेन तत्पूर्वकालीने प्रत्याहारधारणे सूचिते इत्याह –

बाह्येति ।

भक्त्याऽऽदरेणोपचारेणेवाऽऽवेशित आरोपितो ब्रह्मभावो यस्मिन्नोङ्कारे तस्मिन्समाहितचित्त इत्यन्वयः । अनेन धारणोक्ता ।

ध्यानशब्दार्थमाह –

आत्मेति ।

सन्तानाविच्छेद इत्यविच्छिन्नसन्तान इत्यर्थः । प्रत्ययान्तरेण विजातीयप्रत्ययेनाखिलीकृतोऽनन्तरितः ।

चित्तस्याऽऽत्मविषयस्यैव सत एकदेशेन विक्षेपं वारयति –

निर्वातेति ।

ध्यानेनैव यमादिसाधनजातमपि सूचितमित्याह –

सत्येति ।

कतममितिडतमचोऽर्थं बहुषु निर्धारणं दर्शयति –

अनेके हीति ।

ओङ्काराभिध्यानं ध्यानत्वाद्दहराद्युपासनवदपरप्राप्तिसाधनमेवोत परप्राप्तिसाधनमपीति प्रष्टुरभिप्रायः ॥ १ ॥