एवं चतुर्थप्रश्नेनोत्तमाधिकारिणः पदार्थशोधनपूर्वकवाक्यार्थज्ञानेनाक्षरप्राप्तिमुक्त्वाऽत्रानधिकारिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनुदित्यादिमन्त्रसूचितं ब्रह्मलोकप्राप्तिद्वारा क्रमेणाक्षरप्राप्त्यर्थमोङ्कारोपासनं वक्तुं पञ्चमप्रश्नमवतारयति –
अथ हैनमिति ।
इदानीमिति ।
गार्ग्यप्रश्ननिर्णयानन्तरमित्यर्थः ।
परेति ।
अपरब्रह्मलोकप्राप्तिक्रमेण परब्रह्मलोकप्राप्तिसाधनत्वेनेत्यर्थः ।
तदद्भुतमिवेति ।
तदिति क्रियाविशेषणं तादृशमभिध्यानमिति, तेन विशेषणेनाद्भुतत्वं दुष्करत्वं भातीत्यर्थः ।
अभिध्यानेन तत्पूर्वकालीने प्रत्याहारधारणे सूचिते इत्याह –
बाह्येति ।
भक्त्याऽऽदरेणोपचारेणेवाऽऽवेशित आरोपितो ब्रह्मभावो यस्मिन्नोङ्कारे तस्मिन्समाहितचित्त इत्यन्वयः । अनेन धारणोक्ता ।
ध्यानशब्दार्थमाह –
आत्मेति ।
सन्तानाविच्छेद इत्यविच्छिन्नसन्तान इत्यर्थः । प्रत्ययान्तरेण विजातीयप्रत्ययेनाखिलीकृतोऽनन्तरितः ।
चित्तस्याऽऽत्मविषयस्यैव सत एकदेशेन विक्षेपं वारयति –
निर्वातेति ।
ध्यानेनैव यमादिसाधनजातमपि सूचितमित्याह –
सत्येति ।
कतममितिडतमचोऽर्थं बहुषु निर्धारणं दर्शयति –
अनेके हीति ।
ओङ्काराभिध्यानं ध्यानत्वाद्दहराद्युपासनवदपरप्राप्तिसाधनमेवोत परप्राप्तिसाधनमपीति प्रष्टुरभिप्रायः ॥ १ ॥