प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ३ ॥
स यद्यप्योङ्कारस्य सकलमात्राविभागज्ञो न भवति, तथाप्योङ्काराभिध्यानप्रभावाद्विशिष्टामेव गतिं गच्छति ; एतदेकदेशज्ञानवैगुण्यतयोङ्कारशरणः कर्मज्ञानोभयभ्रष्टो न दुर्गतिं गच्छति ; किं तर्हि, यदि एवमोङ्कारमेव एकमात्राविभागज्ञ एव केवलः अभिध्यायीत एकमात्रं सदा ध्यायीत, स तेनैव एकमात्राविशिष्टोङ्काराभिध्यानेनैव संवेदितः सम्बोधितः तूर्णं क्षिप्रमेव जगत्यां पृथिव्याम् अभिसम्पद्यते । किम् ? मनुष्यलोकम् । अनेकानि हि जन्मानि जगत्यां सम्भवन्ति । तत्र तं साधकं जगत्यां मनुष्यलोकमेव उपनयन्ते उपनिगमयन्ति ऋचः । ऋग्वेदरूपा ह्योङ्कारस्य प्रथमा एकमात्रा । तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्मचर्येण श्रद्धया च सम्पन्नः महिमानं विभूतिम् अनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति ; योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति ॥

नेदिष्ठत्वमेव संस्तुवन्नुत्तरवाक्येण साधयति –

स यदीति ।

विकलस्यापि फलजनकत्वान्नेदिष्ठत्वमित्यर्थः ।

सकलेति ।

अकारादिमात्रात्रयात्मक ओङ्कारः स चोपासितव्य इति न जानाति किं त्वकारमात्रमुपासितव्यं जानातीत्यर्थः । तथाऽप्येकदेशज्ञानवैगुण्यतया दुर्गतिं न गच्छति किं तर्ह्योङ्काराभिध्यानप्रभावात्तदेकदेशध्यानप्रभावाद्विशिष्टामेव गतिं गच्छतीत्यन्वयः ।

तात्पर्यार्थमुक्त्वेदानीमक्षरार्थमाह –

यद्यप्येवमिति ।

यदिशब्दो यद्यपीत्यर्थे व्याख्यातः । एवं च स तेनैवेत्यतः प्राक्तथाऽपीति पदं द्रष्टव्यम् ।

एकमात्रमिति ।

एकमात्रात्मजमोङ्कारमकारमित्यर्थः । एकमात्राविशिष्टेत्यत्राप्येकमात्रात्वविशिष्टेत्यर्थः ।

ओङ्कारेति ।

तदवयवेत्यर्थः । एकमात्राप्रधानप्रधानीभूतमात्राद्वयं कृत्स्नमोङ्कारमिति केचिद्व्याचक्षते । दीपिकायां वाचस्पत्ये चाकारमात्रमित्येवं व्याख्यातम् ।

सम्भोधित इति ।

तन्मात्राध्यानेन तन्मात्रासाक्षात्कारवानित्यर्थः ।

पृथिव्यां किमभिसम्पद्यत इति कर्माऽऽकाङ्क्षते ।

किमिति ।

मनुष्यलोकमितिपदमिहाकृष्यऽऽकाङ्क्षां पूरयति –

मनुष्यलोकमिति ।

मनुष्यशरीरमित्यर्थः ।

पृथिव्यां मनुष्यलोकस्यैव नियमात्तदुक्तिवैयर्थ्यमत आह –

अनेकानि हीति ।

पश्वादीनि हीत्यर्थः ।

तर्हि तस्य नियमेन कथं मनुष्यत्वप्राप्तिरत आह –

तत्र तमिति ।

ऋग्वेदरूपा हीति ।

पृथिव्यकारः स ऋग्वेद इति श्रुतेरकारस्य तद्रूपत्वमित्यर्थः । अभिध्याताऽकाररूपा मात्रा ऋग्वेदरूपेत्यन्वयः ।

तेनेति ।

येनर्ग्वेदरूपत्वं तस्य तेनर्चो मनुष्यलोकमुपनयन्त इत्यर्थः ।

वीतश्रद्ध इति ।

श्रद्धाविरहितः सन्नित्यर्थः ।

योगभ्रष्ट इति ।

एकदेशज्ञानविकल इत्यर्थः । अनेन न हि कल्याणकृत्कश्चिदिति गीतावाक्यसंवादः सूचितः ॥ ३ ॥