प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥ ४ ॥
अथ पुनः यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमोङ्कारमभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सौमदैवत्ये सम्पद्यते एकाग्रतयात्मभावं गच्छति, स एवं सम्पन्नो मृतः अन्तरिक्षम् अन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीयमात्रारूपैरेव यजुर्भिः उन्नीयते सोमलोकं सौम्यं जन्मप्रापयन्ति तं यजूंषित्यर्थः । स तत्र विभूतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते ॥

द्विमात्रेण विशिष्टमिति ।

द्वितीयमात्रत्वेन विशिष्टमोङ्कारं तद्गतमुकारमित्यर्थः । न तु मात्राद्वयमकारस्य पूर्वमेवोक्तत्वादत एव द्वितीयमात्रारूपमिति वक्ष्यति । श्रुतौ तृतीया द्वितीयार्थे, ओङ्कारमभिध्यायीतेत्युपक्रमादिति भावः । अत्राभिध्यानं तादात्म्याभिमानपर्यन्तमिति वक्तुं मनसि सम्पद्यत इति वाक्यं तत्र साक्षान्मनःसम्पत्तेः ।

साधनत्वेन वा फलत्वेन वाऽनन्वयान्मनःशब्देन तत्परिणामस्वप्नादिलक्षणद्वारा स्वप्नयजुराद्यात्मत्वेन श्रुत्यन्तरे श्रुतोङ्कार एव लक्ष्यत इत्याह –

स्वप्नात्मक इति ।

उकारे सम्पत्तिपर्यन्तमभिध्यानं यः करोतीति वाक्यार्थ इत्यर्थः । अत्र केचित्स यदीत्यादिर्यः पुनरित्यन्तं न स्तुतिः । किं तूक्तफलायाकारे विश्वाभिन्नविराडुपासनमुकारे तैजसाभिन्नहिरण्यगर्भोपासनं च विवक्षितमित्याहुः । तन्मते मनःशब्देनाण्डपरिणामस्वप्नाभिमानी हिरण्यगर्भ उच्यत इति वक्तुं स्वप्नात्मक इत्यादिविशेषणानीति बोध्यम् । दीपिकायां तु मात्राद्वयस्य मिलितस्योपासनं मनसि सम्पत्तिश्च मनस्यैकाग्रतया चिन्तनमिति च व्याख्यातम् ॥ ४ ॥