प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ ५ ॥
यः पुनः एतम् ओङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेन ओमित्येतेनैव अक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकत्वेन अभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन ह्यालम्बनत्वं प्रकृतमोङ्कारस्य परं चापरं च ब्रह्मेति अभेदश्रुतेः, ओङ्कारमिति च द्वितीयानेकशः श्रुता बाध्येतान्यथा । यद्यपि तृतीयाभिधानत्वेन करणत्वमुपपद्यते, तथापि प्रकृतानुरोधात्त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणेया ‘त्यजेदेकं कुलस्यार्थे’ इति न्यायेन । सः तृतीयमात्रारूपे तेजसि सूर्ये सम्पन्नो भवति ध्यायमानः, मृतोऽपि सूर्यात्सोमलोकादिवन्न पुनरावर्तते ; किन्तु सूर्ये सम्पन्नमात्र एव । यथा पादोदरः सर्पः त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति । एवं ह वै एष यथा दृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः सः सामभिः तृतीयमात्रारूपैः ऊर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् । सः हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः । स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानाम् । तस्मिन् हि लिङ्गात्मनि संहताः सर्वे जीवाः । तस्मात्स जीवघनः स विद्वांस्त्रिमात्रोङ्काराभिज्ञः एतस्माज्जीवघनात् हिरण्यगर्भात्परात्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्वशरीरानुप्रविष्टं पश्यति ध्यायमानः । तत् एतौ अस्मिन्यथोक्तार्थप्रकाशकौ श्लोकौ मन्त्रौ भवतः ॥

एवमोङ्कारं स्तुत्वा तदुपासनं परब्रह्मविषयं विधत्ते –

यः पुनरिति ।

विज्ञानविशिष्टेनेति ।

विज्ञानविषयीकृतेनेत्यर्थः । मात्रात्रयात्मकज्ञानेनेति यावत् । पूर्ववदत्रापि त्रिमात्रेणेत्यत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वारयितुमोमित्येतेनैवाक्षरेणेत्युक्तम् ।

पूर्वत्र तत्तन्मात्राप्रधान ओङ्कार एवोच्यत इति मत इहैवेदं विशेषणमनुपपन्नं पूर्वत्राप्योङ्कारस्यैवोक्तत्वादिति तन्मतमनुपपन्नमिव भातीति त्रिमात्रेणेति तृतीयाश्रवणादोङ्कारो न प्रतीकं तथा सति विषयत्वेन कर्मतया द्वितीया स्यात्किं त्वभिध्यायकत्वेन करणत्वमेव तृतीयाबलादिति भ्रमं वारयति –

प्रतीकेनेति ।

तस्य कर्मत्वेऽपि कारकत्वेनाभिध्यानक्रियानिर्वर्तकत्वेन हेतुत्वात्तन्मात्रविवक्षया तृतीयोपपद्यत इत्यर्थः ।

एवं व्याख्याने हेतुमाह –

प्रतीकत्वेनेति ।

अभेदेति ।

प्रतीकत्वे ह्यधिष्ठानाध्यस्यमानस्योस्तादात्म्यारोपादभेदश्रवणमुपपद्यते करणत्वे तु न तदुपपद्यत इत्यर्थः ।

अनेकश इति ।

ओङ्कारमभिध्यायीत स यद्येकमात्रमभिध्यायीतेति द्विवारं श्रुतेत्यर्थः । अन्यथेत्यस्य बाध्येतेत्यनेनान्वयः ।

अथ यदि द्विमात्रेण यः पुनरेतं त्रिमात्रेणेति च तृतीयाऽपि द्विवारं श्रुता हेतुत्वापेक्षया करणत्वेन स्वरसा च कारकविभक्तित्वात्ततस्तस्या अपि बाधो न युक्त इति शङ्कते –

यद्यपीति ।

द्वितीयाद्वयस्यापि कर्मत्वे स्वारस्यादुपक्रमस्थत्वाच्च तस्यैव प्राबल्यमित्याह –

तथाऽपीति ।

प्रकृतेति ।

प्रक्रमानुरोधादित्यर्थः । किञ्च द्वितीयाद्वयमुक्ता भेदश्रुतिः । एतेनैवाऽऽयतनेनैकतरमन्वेति ।

आयतनेनैवान्वेतीत्यालम्बनवाच्यायतनश्रुतिद्वयं चेति बहुश्रुत्यनुरोधेन तृतीयाद्वयं त्याज्यमित्याह –

त्यजेदेकमिति ।

तृतीयमात्रारूप इति ।

यद्यपि मात्रात्रयध्यानान्मात्रात्रयरूपित्वमेव तस्य तथाऽपि तृतीयमात्राया एवेहासाधारण्यात्तत्प्राधान्येन निर्देश इति बोध्यम् । तृतीयमात्ररूप इति सप्तम्यन्तपाठे तत्सूर्यविशेषणं मकारस्याऽऽदित्यात्मकत्वादिति ।

हिरण्यगर्भस्य जीवघनत्वमनागतावेक्षणन्यायेनोपपादयति –

स हिरण्यगर्भ इति ।

लिङ्गरूपेणेति ।

समष्टिलिङ्गरूपेणेत्यर्थः ।

तस्मिन्हीति ।

समष्टिलिङ्गात्मनि हिरण्यगर्भे व्यष्टिलिङ्गाभिमानिनः सर्वे जीवा गोत्वसामान्ये खण्डमुण्डादय इव संहता इत्यर्थः ।

इदानीं वाक्यं योजयति –

स विद्वानिति ।

स विद्वानिदानीं ध्यायमानः पश्चाद्ब्रह्मलोकं प्राप्तः । तत्र ब्रह्मलोके स्थावरजङ्गमेभ्यः पराज्जीवघनात्परं पुरुषं पश्यति ततो मुक्तो भवतीत्यन्वयः ॥ ५ ॥