तत्र यः पुनरेतमित्यादिनोक्तेऽर्थे आद्यं मन्त्रं योजयति –
तिस्र इति ।
मृत्युगोचर इति ।
प्रत्येकं ब्रह्मदृष्टिं च विना तदुपासकानां मृत्य्वनतिक्रमादित्यर्थः ।
ब्रह्मदृष्ट्या संश्लिष्टत्वेन च सम्भूय च प्रयुक्ताश्चेन्नायं दोष इत्याह –
किञ्चेति ।
जाग्रदिति ।
जाग्रत्पुरुषो वैश्वानराभिन्नो विश्वस्तस्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिरण्यगर्भाभिन्नस्तैजसस्तत्स्थानं लिङ्गशरीरं स्वप्नश्च । सुषुप्तावीश्वरात्मा प्राज्ञस्तत्स्थानमव्याकृतं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदभिध्यानं तल्लक्षणासु योगक्रियासु प्रयुक्तास्वन्योन्यसक्ता अनविप्रयुक्तास्तिस्रो मात्राः प्रयुक्ताश्चेन्न कम्पत इत्यन्वयः । अनेन सर्वात्मके परब्रह्मणीश्वर ओङ्काराभेदेन ध्यानमुक्तम् ।
यथोक्तेति ।
तिस्रो मात्रा इति श्लोकोक्तविभाग इत्यर्थः ।
कुतो वेति ।
चलनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्यतिरिक्ताभावाच्चलनं न सम्भवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥