प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ६ ॥
तिस्रः त्रिसङ्‍ख्याका अकारोकारमकाराख्याः ओङ्कारस्य मात्राः । मृत्युमत्यः मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्युगोचरादनतिक्रान्ताः मृत्युगोचरा एवेत्यर्थः । ता आत्मनो ध्यानक्रियासु प्रयुक्ताः । किञ्च, अन्योन्यसक्ताः इतरेतरसम्बद्धाः । अनविप्रयुक्ताः विशेषेणैकैकविषय एव प्रयुक्ता विप्रयुक्ताः, न तथा विप्रयुक्ता अविप्रयुक्ताः, न अविप्रयुक्ता अनविप्रयुक्ताः । किं तर्हि, विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रियासु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु युक्तासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति ज्ञः योगी यथोक्तविभागज्ञः ओङ्कारस्येत्यर्थः । न तस्यैवंविदश्चलनमुपपद्यते । यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपेणोङ्कारात्मरूपेण दृष्टाः ; स ह्येवं विद्वान्सर्वात्मभूत ओङ्कारमयः कुतो वा चलेत्कस्मिन्वा ॥

तत्र यः पुनरेतमित्यादिनोक्तेऽर्थे आद्यं मन्त्रं योजयति –

तिस्र इति ।

मृत्युगोचर इति ।

प्रत्येकं ब्रह्मदृष्टिं च विना तदुपासकानां मृत्य्वनतिक्रमादित्यर्थः ।

ब्रह्मदृष्ट्या संश्लिष्टत्वेन च सम्भूय च प्रयुक्ताश्चेन्नायं दोष इत्याह –

किञ्चेति ।

जाग्रदिति ।

जाग्रत्पुरुषो वैश्वानराभिन्नो विश्वस्तस्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिरण्यगर्भाभिन्नस्तैजसस्तत्स्थानं लिङ्गशरीरं स्वप्नश्च । सुषुप्तावीश्वरात्मा प्राज्ञस्तत्स्थानमव्याकृतं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदभिध्यानं तल्लक्षणासु योगक्रियासु प्रयुक्तास्वन्योन्यसक्ता अनविप्रयुक्तास्तिस्रो मात्राः प्रयुक्ताश्चेन्न कम्पत इत्यन्वयः । अनेन सर्वात्मके परब्रह्मणीश्वर ओङ्काराभेदेन ध्यानमुक्तम् ।

यथोक्तेति ।

तिस्रो मात्रा इति श्लोकोक्तविभाग इत्यर्थः ।

कुतो वेति ।

चलनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्यतिरिक्ताभावाच्चलनं न सम्भवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥