प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते ।
तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥
सर्वार्थसङ्ग्रहार्थो द्वितीयो मन्त्रः — ऋग्भिः एतं लोकं मनुष्योपलक्षितम् । यजुर्भिः अन्तरिक्षं सोमाधिष्ठितम् । सामभिः यत् तद्ब्रह्मलोक इति तृतीयं कवयः मेधाविनो विद्यावन्त एव नाविद्वांसः वेदयन्ते । तं त्रिविधं लोकमोङ्कारेण साधनेनापरब्रह्मलक्षणम् अन्वेति अनुगच्छति विद्वान् । तेनैवोङ्कारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्तजाग्रत्स्वप्नसुषुप्तादिविशेषं सर्वप्रपञ्चविवर्जितम् , अत एव अजरं जरावर्जितम् अमृतं मृत्युवर्जितमत एव । यस्माज्जरादिविक्रियारहितमतः अभयम् । यस्मादेवाभयं तस्मात् परं निरतिशयम् । तदप्योङ्कारेणैवायतनेन गमनसाधनेनान्वेतीत्यर्थः । इतिशब्दो वाक्यपरिसमाप्त्यर्थः ॥

अपरब्रह्मप्राप्त्यर्थं य ओङ्कारः प्रयुक्तस्तेनैव न पृथक्प्रयुक्तः परमपि प्राप्नोति ब्रह्मलोक उत्पन्ननिर्विशेषब्रह्मसाक्षात्कारेणोक्तस्योङ्कारस्य क्रममुक्तिफलत्वादित्याह –

तेनैवेति ।

येनापरमन्वेति तेनैव परमप्यन्वेतीत्येवकारार्थ इत्यर्थः । तदप्योङ्कारेणेत्यायतनविशेषणार्थं पुनरोङ्कारग्र्हणमिति न पुनरुक्तिरिति बोध्यम् ॥ ७ ॥