प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति, समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
अथ ह एनं सुकेशा भारद्वाजः पप्रच्छ समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठत इत्युक्तम् । तत्सामर्थ्यात्प्रलयेऽपि तस्मिन्नेवाक्षरे सम्प्रतिष्ठते जगत्तत एवोत्पद्यत इति च सिद्धं भवति । न ह्यकारणे कार्यस्य सम्प्रतिष्ठानमुपपद्यते । उक्तं च ‘आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति । जगतश्च यन्मूलं तत्परिज्ञानात्परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तम् ‘स सर्वज्ञः सर्वो भवति’ (प्र. उ. ४ । १०) इति । वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति ; तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वज्ञापनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोपादानार्थम् । हे भगवन् , हिरण्यनाभः नामतः कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः माम् उपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छत । षोडशकलं षोडशसङ्‍ख्याकाः कला अवयवा इवात्मन्यविद्याध्यारोपितरूपा यस्मिन्पुरुषे, सोऽयं षोडशकलः ; तं षोडशकलं हे भारद्वाज, पुरुषं वेत्थ त्वं विजानासि । तम् अहं राजपुत्रं कुमारं पृष्टवन्तम् अब्रवम् उक्तवानस्मि — नाहमिमं वेद यं त्वं पृच्छसीति । एवमुक्तवत्यपि मय्यज्ञानमसम्भावयन्तं तमज्ञाने कारणमवादिषम् — यदि कथञ्चित् अहम् इमं त्वया पृष्टं पुरुषम् अवेदिषं विदितवानस्मि, कथम् अत्यन्तशिष्यगुणवतेऽर्थिने ते तुभ्यं न अवक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः । भूयोऽप्यप्रत्ययमेवालक्ष्य प्रत्याययितुमब्रवम् — समूलः सह मूलेन वै एषः अन्यथा सन्तमात्मानमन्यथा कुर्वन् यः अनृतम् अयथाभूतार्थम् अभिवदति, स परिशुष्यति शोषमुपैति इहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मात् न अर्हामि अहम् अनृतं वक्तुं मूढवत् । स राजपुत्रः एवं प्रत्यायितः तूष्णीं व्रीडितः रथम् आरुह्य प्रवव्राज प्रगतवान् यथागतमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैव ; अनृतं च न वक्तव्यं सर्वास्वप्यवस्थास्वित्येतत्सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितम् , क्व असौ वर्तते विज्ञेयः पुरुष इति ॥

गताः कालाः पञ्चदश प्रतिष्ठाः कर्मणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह षोडशकालानां परस्मिंल्लयमुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टान्तोक्तिद्वारा परप्राप्तिरुक्ता तन्मन्त्रयोर्विस्तराभिधानार्थं षष्ठं प्रश्नमारभते –

अथ हैनमिति ।

तस्य पूर्वेण सङ्गतिमुक्तार्थानुवादपूर्वकमाह –

समस्तमित्यादिना ।

अक्षरस्य कारणत्वसिद्ध्यर्थे प्रलयेऽपि तस्मिन्नेव लयमाह –

सामर्थ्यादिति ।

लयाधारत्वेन कारणत्वमाह –

तत इति ।

तदुक्तेः प्रयोजनमाह –

जगत इति ।

यद्यप्यद्वितीयात्मज्ञानान्मुक्तिर्न कारणज्ञानात्तथाऽपि तस्य कारणत्वे तद्व्यतिरेकेण कार्याभावात्तदद्वितीयत्वज्ञानं सिध्यतीति तादृशात्मज्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञेनाऽऽत्मनाऽमृतः समभवत् । सदेवैकमेवाद्वितीयमित्युपक्रम्याऽऽचार्यवान्पुरुषो वेद, अथ सम्पत्स्ये, तमेवैकं जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवदित्यादिषु निश्चितमित्यर्थः ।

इहापि तादृगात्मज्ञानादेव सर्वात्मभावः श्रेय उक्त इत्याह –

अनन्तरमिति ।

वृत्तमनूद्य वर्तिष्यमाणमाह –

वक्तव्यमिति ।

तदर्थोऽयमिति ।

तस्य शरीरान्तस्थत्वोक्तिद्वारा तस्य प्रत्यगात्मत्वज्ञानार्थमित्यर्थः ।

प्रश्नमिति ।

प्रष्टव्यमित्यर्थः ।

अज्ञाने कारणमिति ।

अज्ञानसम्भावनायां कारणमित्यर्थः ।

अप्रत्ययमिति ।

अविश्वासमित्यर्थः ।

अन्यथा सन्तमिति ।

ज्ञानिनं सन्तमन्यथा कुर्वन्नज्ञानिनं कुर्वन्नारोपयन्नित्यर्थः ।

कथं ते नावक्ष्यमित्यनेन सूचितमर्थमाह –

अत इति ।

समूलो वा इत्यनेन सूचितमाह –

अनृतं चेति ।

स्वरूपेण शल्यत्वाभावादाह –

विज्ञेयत्वेनेति ।

यावज्जिज्ञासितं न ज्ञायते तावत्तद्धृदि शल्यवद्भासत इति शल्यमिवेत्युक्तम् ॥ १ ॥