गताः कालाः पञ्चदश प्रतिष्ठाः कर्मणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह षोडशकालानां परस्मिंल्लयमुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टान्तोक्तिद्वारा परप्राप्तिरुक्ता तन्मन्त्रयोर्विस्तराभिधानार्थं षष्ठं प्रश्नमारभते –
अथ हैनमिति ।
तस्य पूर्वेण सङ्गतिमुक्तार्थानुवादपूर्वकमाह –
समस्तमित्यादिना ।
अक्षरस्य कारणत्वसिद्ध्यर्थे प्रलयेऽपि तस्मिन्नेव लयमाह –
सामर्थ्यादिति ।
लयाधारत्वेन कारणत्वमाह –
तत इति ।
तदुक्तेः प्रयोजनमाह –
जगत इति ।
यद्यप्यद्वितीयात्मज्ञानान्मुक्तिर्न कारणज्ञानात्तथाऽपि तस्य कारणत्वे तद्व्यतिरेकेण कार्याभावात्तदद्वितीयत्वज्ञानं सिध्यतीति तादृशात्मज्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञेनाऽऽत्मनाऽमृतः समभवत् । सदेवैकमेवाद्वितीयमित्युपक्रम्याऽऽचार्यवान्पुरुषो वेद, अथ सम्पत्स्ये, तमेवैकं जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवदित्यादिषु निश्चितमित्यर्थः ।
इहापि तादृगात्मज्ञानादेव सर्वात्मभावः श्रेय उक्त इत्याह –
अनन्तरमिति ।
वृत्तमनूद्य वर्तिष्यमाणमाह –
वक्तव्यमिति ।
तदर्थोऽयमिति ।
तस्य शरीरान्तस्थत्वोक्तिद्वारा तस्य प्रत्यगात्मत्वज्ञानार्थमित्यर्थः ।
प्रश्नमिति ।
प्रष्टव्यमित्यर्थः ।
अज्ञाने कारणमिति ।
अज्ञानसम्भावनायां कारणमित्यर्थः ।
अप्रत्ययमिति ।
अविश्वासमित्यर्थः ।
अन्यथा सन्तमिति ।
ज्ञानिनं सन्तमन्यथा कुर्वन्नज्ञानिनं कुर्वन्नारोपयन्नित्यर्थः ।
कथं ते नावक्ष्यमित्यनेन सूचितमर्थमाह –
अत इति ।
समूलो वा इत्यनेन सूचितमाह –
अनृतं चेति ।
स्वरूपेण शल्यत्वाभावादाह –
विज्ञेयत्वेनेति ।
यावज्जिज्ञासितं न ज्ञायते तावत्तद्धृदि शल्यवद्भासत इति शल्यमिवेत्युक्तम् ॥ १ ॥