एवं परपक्षं निराकृत्य प्रकृतश्रुतिव्याख्यानं कुर्वन्स प्राणमसृजतेत्यस्य तात्पर्यार्थमाह –
ईश्वरेणेवेति ।
राज्ञेवेत्यर्थः ।
अक्षरार्थं प्रश्नपूर्वकमाह –
कथमिति ।
हिरण्यगर्भाख्यमिति ।
हिरण्यगर्भ इत्याख्या येनोपाधिनाऽऽत्मनो भवति तं बुद्ध्यभिन्नं सर्वप्राणं समष्टिप्राणमित्यर्थः । यथाश्रुते कस्मिन्नहमुत्क्रान्त इत्यादिनाऽऽत्मन उत्क्रान्त्याद्युपाधिसृष्टेः प्रस्तुतत्वाद्धिरण्यगर्भस्य जीवस्यातथात्वादुपक्रमविरोधापत्तेः । हिरण्यगर्भाख्यमित्युक्तिस्त्वात्मनो हिरण्यगर्भादिसंसारिभावोऽप्येतदुपाधिक इति सूचयितुमिति बोध्यम् ।
तस्य समष्टित्वमाह –
सर्वेति ।
अन्तरात्मानमिति ।
सर्वस्थूलशरीरान्तरत्वादात्मबुद्धिगोचरत्वाच्चान्तरात्मा स इत्यर्थः । तत इत्यानन्तर्यार्थेयं पञ्चमी । एवमुत्तरत्रापि । न च भूतकार्यत्वात्प्राणस्य कथं ततः पूर्वकालीनत्वमिति वाच्यम् । सत्यम् । सूक्ष्मभूतसृष्ट्यन्तरं प्राणमसृजतेति कल्पनीयत्वात् । न चैतदन्तरं भूतसृष्ट्युक्तिविरोधशङ्का । तस्याः पञ्चीकृतस्थालभूतविषयत्वोपपत्तेः । अत एव भोगसाधनाधिष्ठानानीत्युक्तम् । सूक्ष्माणां तथात्वायोगात् । न चैवमपि स्थूलभूतसृष्ट्यनन्तरमिन्द्रियमनःसृष्ट्युक्तिविरोधः । भूतारब्धदेहाधिष्ठितानामेव तेषां कार्यक्षमत्वेन तेषां तदनन्तरत्वोक्तिरिति भावः ।
भोगसाधनाधिष्ठानत्वं भूतानां तत्कारणत्वादित्याह –
कारणभूतानीति ।
तेषां भूतानां लक्षणतया खं शब्दगुणमित्यादिनाऽसाधारणगुणा उक्ताः । पूर्वपूर्वगुणानुवृत्तिस्तु पूर्वपूर्वस्योत्तरोत्तरोपादानत्वसूचनार्थं स्थौल्यतारतम्यसिद्ध्यर्थं चोक्तेति बोध्यम् ।
वायुमिति ।
श्रुतौ वायुरित्यादिप्रथमा द्वितीयार्थाः । प्राणमसृजतेति द्वितीययोपक्रमात् ।
तैरेवेति ।
अपञ्चीकृतावस्थायामित्यर्थः ।
तस्य चेश्वरमिति ।
नियामकमित्यर्थः ।
सङ्कीर्यमाणानामिति ।
अविशुद्धसत्त्वतया पापाचरणेन तैः पापैः सङ्कीर्यमाणानां सङ्करपरिहाराय चित्तशुद्धिसाधनं तपोऽसृजतेत्यर्थः ।
फलमिति ।
लोक्यते भुज्यत इति लोकः फलमित्यर्थः ।
नाम चेति ।
ब्राह्मणादिनाम्नोक्तव्यवहारासङ्करार्थमित्यर्थः । नन्वीश्वरसृष्टत्वोक्त्या कलानां सत्यत्वमङ्गीकर्तव्यम् । आरोपे शुक्तिरजतादौ सृष्टत्वव्यवहारभावादित्याशङ्क्याङ्कुल्यवष्टम्भनेत्रमर्दनादिना प्रयत्नेन सृष्टस्य द्विचन्द्रमशकमक्षिकादेरारोपत्वदर्शनात् ।
अथ रथान्रथयोगान्पथः सृजत इति सृष्टत्वेनोक्तस्वप्नपदार्थस्य च भ्रमत्वदर्शनान्मैवमित्याह –
एवमेता इति ।
अविद्याकामकर्मादिदोषरूपं यद्बीजं तदपेक्षया तत्साधनीकृत्येत्यर्थः । तैमिरिकशब्दो नेत्रेऽङ्गुल्यवष्टम्भाद्युपलक्षणार्थः ।
एवमात्मप्रतिपत्त्यर्थमप्यारोपमुक्त्वा तदपवादमवतारयति –
पुनस्तस्मिन्नेवेति ॥ ४ ॥