प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥
कथम् ? सः दृष्टान्तः, यथा लोके इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः, समुद्र एव अयनं गतिरात्मभावो यासां ताः समुद्रायणाः, समुद्रं प्राप्य उपगम्य अस्तम् अदर्शनं नामरूपतिरस्कारं गच्छन्ति ; तासां चास्तं गतानां भिद्येते विनश्येते नामरूपे गङ्गा यमुनेत्यादिलक्षणे ; तदभेदेन समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणम् ; एवं यथायं दृष्टान्तः उक्तलक्षणस्य प्रकृतस्य अस्य पुरुषस्य परिद्रष्टुः परि समन्ताद्द्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य । यथा अर्कः स्वात्मप्रकाशस्य कर्ता सर्वतः, तद्वत् इमाः षोडश प्राणाद्या उक्ताः कलाः पुरुषायणाः नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं गच्छन्ति । भिद्येते च आसां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम् । भेदे च नामरूपयोर्यदनष्टं तत्तत्त्वं पुरुषः इत्येवं प्रोच्यते ब्रह्मविद्भिः । य एवं विद्वान्गुरुणा प्रदर्शितकलाप्रलयमार्गः, स एषः विद्यया प्रविलापितास्वविद्याकामकर्मजनितासु प्राणादिकलासु अकलः अविद्याकृतकलानिमित्तो हि मृत्युः ; तदपगमेऽकलत्वादेव अमृतः भवति । तदेतस्मिन्नर्थे एषः श्लोकः ॥

ग्रामादिवद्भेदेन गन्तव्यत्वभ्रमं वारयति –

आत्मभाव इति ।

अस्तशब्देन नाशो नाभिधीयते भेदकोपाधिनामरूपयोर्नाशेऽपि स्वरूपस्य समुद्रात्मना विद्यमानत्वादित्याह –

नामरूपतिरस्कारमिति ।

पूर्वरूपतिरस्कारमित्यर्थः ।

तद्वस्त्विति ।

नामरूपनाशानन्तरं परिशिष्टमुदकलक्षणं वस्तु समुद्र इत्येवोच्यत इत्यन्वयः । पुरुषस्येति कर्मणि षष्ठी । पुरुषं स्वात्मरूपम् । परितः सर्वं स्वरूपत्वेन पश्यत इत्यर्थः ।

द्रष्टुरित्युक्त आगन्तुकस्य दर्शनस्य कर्ता प्रतीयत इत्यत आह –

दर्शनस्य कर्तुः स्वरूपभूतस्येति ।

स्वरूपत्वे दर्शनस्य तत्र कर्तृत्वानुपपत्तेस्तदर्थकतृच्प्रत्ययविरोध इत्याशङ्क्यार्कः सर्वतः स्वप्रकाशक इत्यत्र यथा कर्त्रर्थकस्य प्रत्ययस्योपचरितत्वं तद्वदिहापीत्याह –

यथाऽर्क इति ।

नदीनामिवेति ।

इवशब्दस्तथाशब्दार्थे । यथा नदीनां समुद्रोऽयनं तथा पुरुषोऽयनमित्यन्वयः ।

अस्तगमनस्वरूपमाह –

भिद्यते इति ।

नामरूपभेद एवास्तगमनमिहेत्यर्थः ।

यथास्वमिति ।

यस्य यत्स्वरूपं प्राणाद्यात्मकं तदपि भिद्यत इत्यन्वयः ।

पुरुष इत्येवं प्रोच्यत इत्यस्यार्थमाह –

भेदे चेति ।

यदनष्टमिति ।

कलानां हि रूपमारोप्याधिष्ठानोभयात्मकं सत्यानृतमिथुनरूपं, तत्राऽऽरोप्यस्य नामरूपात्मकस्य भेदेऽधिष्ठानात्मकं रूपं पुरुषात्मनोच्यत इत्यर्थः । यथा समुद्रस्वरूपभूतं जलं मेघैराकृष्याभिवृष्टं गङ्गादिनामरूपोपाधिना समुद्राद्भिन्नमिव व्यवह्रियमाणं तदुपाधिविगमे समुद्रस्वरूपमेव प्रतिपद्यत एवमविद्याकृतनामरूपोपाधिवशादात्मनो भिन्नमिव स्थितं सर्वं जगद्विद्ययाऽविद्याकृतनामरूपविगमे ब्रह्ममात्रतयाऽवशिष्यत इत्यर्थः ।

एवं प्राणादिकलोपाधिक आत्मन उत्क्रमणादिशब्दितमरणादिव्यवहार इत्युक्तेः प्रयोजनं प्राणादिनिवृत्तावुत्क्रमणादिसर्वसंसारधर्मरहितात्मस्वरूपावस्थानरूपं दर्शयितुं स एष इति वाक्यं व्याचष्टे –

य एवं विद्वानित्यादिना ॥ ५ ॥