प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६ ॥
अरा इव रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशिताः तदाश्रया भवन्ति यथा, तथेत्यर्थः । कलाः प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्पत्तिस्थितिलयकालेषु, तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात्पुरुषं पुरि शयनाद्वा वेद जानाति ; यथा हे शिष्याः, मा वाः युष्मान् मृत्युः परिव्यथाः मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ । अतस्तन्माभूद्युष्माकमित्यभिप्रायः ॥

परिवारा इति ।

नाभेः परितो नाभौ नेम्यां च प्रोतास्तिर्यक्काष्ठविशेषा इत्यर्थः ।

यथाप्रवेशिता इति ।

यथावत्सम्यक्प्रवेशिता इत्यर्थः ।

माङोऽर्थं व्यतिरेकप्रदर्शनेन स्पष्टयति –

न चेदिति ॥ ६ ॥