प्रश्नोपनिषद्भाष्यम्
षष्ठः प्रश्नः
आनन्दगिरिटीका (प्रश्न)
 
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥
ततः ते शिष्या गुरुणानुशिष्टाः तं गुरुं कृतार्थाः सन्तो विद्यानिष्क्रयमन्यदपश्यन्तः किं कृतवन्त इत्युच्यते — अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरसा । किमूचुरित्याह — त्वं हि नः अस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वान्नित्यस्याजरामरणस्याभयस्य । यः त्वमेव अस्माकम् अविद्यायाः विपरीतज्ञानाज्जन्मजरामरणरोगदुःखादिग्राहादपारादविद्यामहोदधेर्विद्याप्लवेन परम् अपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मानित्यतः पितृत्वं तवास्मान्प्रत्युपपन्नमितरस्मात् । इतरोऽपि हि पिता शरीरमात्रं जनयति, तथापि स पूज्यतमो लोके ; किमु वक्तव्यमात्यन्तिकाभयदातुरित्यभिप्रायः । नमः परमऋषिभ्यः ब्रह्मविद्यासम्प्रदायकर्तृभ्यः । नमः परमऋषिभ्य इति द्विर्वचनमादरार्थम् ॥

प्रकिरणेनेति ।

प्रक्षेपेणेत्यर्थः ।

अतः पितृत्वं तवेति ।

“जनकश्चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः” ॥ इति स्मृतेरित्यर्थः ।

योऽस्माकमितिहेतूक्तेस्तात्पर्यं वदन्पितृत्वोक्तिमात्रेण विद्यानिष्क्रयार्थं किं दत्तमित्यपेक्षायां स्वशरीरमेव परिचारकतया दासभावेन गुरवे दत्तमित्याह –

इतरस्मादिति ।

पितृत्वादेव किं पूज्यतरत्वं परिचार्यत्वं स्वामित्वं किमु वक्तव्यमित्यर्थः । अत एव वाजसनेयके मां चापि सह दास्यायेतीत्युक्तमिति भावः ॥ ८ ॥

इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां षष्ठः प्रश्नः ॥ ६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दज्ञानविरचिताऽऽथर्वणप्रश्नोपनिषद्भाष्यटीका समाप्ता ॥