तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥
भूर्भुवः सुवरिति । इतीत्युक्तोपप्रदर्शनार्थः । एतास्तिस्र इति च प्रदर्शितानां परामर्शार्थः परामृष्टाः स्मर्यन्ते वै इत्यनेन । तिस्र एताः प्रसिद्धा व्याहृतयः स्मर्यन्त इति यावत् । तासाम् इयं चतुर्थी व्याहृतिर्मह इति ; तामेतां चतुर्थीं महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते, उ ह स्म इत्येतेषां वृत्तानुकथनार्थत्वात् विदितवान् ददर्शेत्यर्थः । माहाचमस्यग्रहणमार्षानुस्मरणार्थम् । ऋष्यनुस्मरणमप्युपासनाङ्गमिति गम्यते, इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याहृतिः मह इति, तत् ब्रह्म । महद्धि ब्रह्म ; महश्च व्याहृतिः । किं पुनस्तत् ? स आत्मा, आप्नोतेर्व्याप्तिकर्मणः आत्मा ; इतराश्च व्याहृतयो लोका देवा वेदाः प्राणाश्च मह इत्यनेन व्याहृत्यात्मना आदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः, अत अङ्गानि अवयवाः अन्याः देवताः । देवताग्रहणमुपलक्षणार्थं लोकादीनाम् । मह इत्यस्य व्याहृत्यात्मनो देवा लोकादयश्च सर्वे अवयवभूता यतः, अत आह - आदित्यादिभिर्लोकादयो महीयन्त इति । आत्मना ह्यङ्गानि महीयन्ते महनं वृद्धिः उपचयः । महीयन्ते वर्धन्त इत्यर्थः । अयं लोकः अग्निः ऋग्वेदः प्राण इति प्रथमा व्याहृतिः भूः, अन्तरिक्षं वायुः सामानि अपानः इति द्वितीया व्याहृतिः भुवः ; असौ लोकः आदित्यः यजूंषि व्यानः इति तृतीया व्याहृतिः सुवः ; आदित्यः चन्द्रमाः ब्रह्म अन्नम् इति चतुर्थी व्याहृतिः महः इत्येवम् एकैकाश्चतुर्धा भवन्ति । मह इति ब्रह्म ब्रह्मेत्योङ्कारः, शब्दाधिकारे अन्यस्यासम्भवात् । उक्तार्थमन्यत् । ता वा एताश्चतस्रश्चतुर्धेति । ता वै एताः भूर्भुवःसुवर्मह इति चतस्रः एकैकशः चतुर्धा चतुःप्रकाराः । धा - शब्दः प्रकारवचनः । चतस्रश्चतस्रः सत्यः चतुर्धा भवन्तीत्यर्थः । तासां यथाक्लृप्तानां पुनरुपदेशस्तथैवोपासननियमार्थः । ताः यथोक्ता व्याहृतीः यः वेद, स वेद विजानाति । किं तत् ? ब्रह्म । ननु, ‘तद्ब्रह्म स आत्मा’ इति ज्ञाते ब्रह्मणि, न वक्तव्यमविज्ञातवत् ‘स वेद ब्रह्म’ इति ; न ; तद्विशेषविवक्षुत्वाददोषः । सत्यं विज्ञातं चतुर्थव्याहृत्या आत्मा ब्रह्मेति ; न तु तद्विशेषः - हृदयान्तरुपलभ्यत्वं मनोमयत्वादिश्च । ‘शान्तिसमृद्धम्’ इत्येवमन्तो विशेषणविशेषरूपो धर्मपूगो न विज्ञायत इति ; तद्विवक्षु हि शास्त्रमविज्ञातमिव ब्रह्म मत्वा ‘स वेद ब्रह्म’ इत्याह । अतो न दोषः । यो वा वक्ष्यमाणेन धर्मपूगेण विशिष्टं ब्रह्म वेद, स वेद ब्रह्म इत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैकवाक्यता अस्य, उभयोर्ह्यनुवाकयोरेकमुपासनम् । लिङ्गाच्च । ‘भूरित्यग्नौ प्रतितिष्ठति’ इत्यादिकं लिङ्गमुपासनैकत्वे । विधायकाभावाच्च । न हि वेद उपासीत वेति विधायकः कश्चिच्छब्दोऽस्ति । व्याहृत्यनुवाके ‘ता यो वेद’ इति तु वक्ष्यमाणार्थत्वान्नोपासनाभेदकः । वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम् । सर्वे देवाः अस्मै एवंविदुषे अङ्गभूताः आवहन्ति आनयन्ति बलिम् , स्वाराज्यप्राप्तौ सत्यामित्यर्थः ॥

तत्र किं साम्यमित्यत आह –

महद्धीति ।

यथा देवदत्तस्य पादादीन्यङ्गानि मध्यभागश्चाङ्गी , इतरेषामङ्गानामात्मा कथ्यते व्यापकत्वात् । तथा महोव्याहृतिर्हिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते । इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते । प्रथमव्याहृतिः पादौ , द्वितीया बाहू , तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः ।

इदानीमङ्गविशेषविधिः कथ्यते –

भूरिति वा अयं लोक इत्यादिना ।

तत्रैकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह –

अयं लोक इत्यादिना ।

एकैका व्य्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ते तदा षोडशकलः पुरुष उपासितो भवतीत्यभिप्रेत्य संक्षेपमाह –

ता वा एता इति ।

स वेद ब्रह्मेति ब्रह्मवेदनं फलत्वेन न सङ्कीर्त्यतेऽधिकारविधिवाक्ये ।

किन्तु वक्ष्यमाणानु वाकेनास्मिन्नेव ब्रह्मोपासने गुणविधानं भविष्यतीति सूचयितुमित्याह –

न तद्विशेषविवक्षुत्वादित्यादिना ।

यदि व्याहृत्यवयवमेव ब्रह्मोत्तरत्रोपास्यते तदैवोपासकस्य प्रथमव्याहृत्यात्मकेऽग्नौ प्रतिष्ठाभिधानं घटेत ।

तस्माद्व्याहृत्यात्मकदेवताप्राप्त्यभिधानं उपासनैकत्वे लिङ्गमाह –

लिङ्गाच्चेति ।

किञ्चैकत्र प्रधानविद्याविधिरपरत्र गुणविधिरित्येवमनुवाकभेदे चरितार्थे नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह –

विधायकाभावाच्चेति ।

विधायक इति । भिन्नविद्याबोधक इत्यर्थः ।

इति पञ्चमोऽनुवाकः ॥