तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
ओमिति ब्रह्म । ओमितीदं सर्वम् । ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ॐ शोमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १ ॥
व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्य ओङ्कारस्योपासनं विधित्स्यते ।

वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति –

व्याहृत्यात्मन इत्यादिना ।

वेदविदां हि सर्वाः क्रिया ओङ्कारमुच्चार्य प्रवर्तन्ते ततस्तस्य श्रद्धागृहीतत्वात्तत्परिहारेणोपदिष्टं ब्रह्म न बुद्धिमारोहेदतस्तमादायैवोपासनं विधायत इत्यर्थः ।