तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्य स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १ ॥
विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वात् श्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्येतन्मा प्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्वप्रदर्शनार्थ इहोपन्यासः -

व्यवहितानुवाकेन सम्बन्धमाह –

विज्ञानादेवेत्यादिना ।

अपरविद्यासहकारितया तत्फलेनैव फलवत्त्वसिद्ध्यर्थमुत्तरानुवाकारम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः ।