आद्यानुवाके केवलाया विद्याया निःश्रयससाधनत्वमुक्तमपि स्फुटीकर्तुं कर्मविधिमुपलभ्य प्रसङ्गात्पुनर्विचारयितुमुपक्रमते –
अत्रैतच्चिन्त्यत इत्यादिना ।
विवेकार्थमिति पृथक्फलत्वज्ञापनार्थमित्यर्थः । “ भूतं भव्यायोपदिश्यते” इति न्यायेनाऽऽत्मज्ञानस्यापि कर्मकर्तृसंस्कारतया कर्मविधिशेषत्वाच्छुतस्यापि फलस्यार्थवादमात्रत्वात्कर्मभ्य एव परं श्रेय इति पूर्वः पक्षः ।
सिद्धान्तमाह –
न नित्यत्वादित्यादिना ।
यद्यप्यध्ययनविधिप्रयुक्त्या कृत्स्नो वेदार्थं एकेन विचारितव्यस्तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययनं प्रतिवाक्यार्थविचारं च व्यापारभेदात्तत्प्रयुक्तऽभ्युदयकामस्य कर्मोपयोगिवाक्यार्थज्ञानवत्त्वमात्रेण कर्मण्यधिकारसम्भवाद्ब्रह्मसाक्षात्कारस्य तत्रानुपयोगित्वान्न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणमस्तीत्याह –
तच्च नेति ।
यद्यपि चाध्ययनविधिप्रयुक्त्या वेदान्तविचारोऽपि कृतो गुरुकुल एव तथाऽपि न समस्तवेदार्थज्ञानवतोऽधिकारः ।
उपासनासाध्यस्य ब्रह्मसाक्षात्कारस्य पृथग्भावादित्याह –
श्रुतज्ञानेति ।
श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानोपयोगि यज्ज्ञानं तावन्मात्रेण कर्मण्यधिक्रियते न ब्रह्मसाक्षात्कारफलमुपासनमपेक्षते व्यतिरेकाभावादित्यर्थः ।
अध्ययनविधिव्यापारोपरमेऽनुष्ठेयं तथाभूतंब्रह्मोपासनमेव नास्ति, मानाभावादिति न वक्तव्यमित्याह –
उपासनं चेति ।
एतच्च कर्ममीमांसान्यायाङ्गीकारमात्रेणोक्तम् । वस्तुतश्च श्रोतव्यविधिप्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्डविचारोऽप्युत्तरविधिप्रयुक्त एवेति प्रकटार्थे प्रतिष्ठितम् । केवलं कर्म मोक्षसाधनमिति पक्षं निरस्य विद्यासमुच्चितं मोक्षसाधनमिति पक्षान्तरमाशङ्क्य निषेधत्ति एवं तर्हीत्यादिना । “न स पुनरावर्तते” (शरभोपनिषत्) इति वचनादारभ्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गज्ञापकत्वात् । न चारभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कारकत्वप्रसङ्गात् ।
“अन्धो मणिमविन्दत्” इत्यादिष्वपि योग्यताकल्पनप्रसङ्गादित्याह –
न ज्ञापकत्वादित्यादिना ।
कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति –
एतेनेति ।
अनित्यत्वादिदोषप्रसङ्गेनेत्यर्थः ।