मोक्षेति ।
मोक्षस्य प्रतिबन्धहेतुरविद्याऽधर्मादिस्तन्निवर्तके विद्याकर्मणी न स्वरूपोत्पादके । ततः स्वरूपावस्थानस्य नित्यत्वम् ।
प्रध्वंसस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः । “भिद्यते हृदयग्रन्थिः”(मु. उ. २ । २ । ९) इत्यादिश्रुतेः केवलविद्यासाध्यैवाविद्यानिवृत्तिः न तत्र विद्यायाः सहकार्यपेक्षा कर्मफलं त्वन्यदेव प्रसिद्धमित्याह –
न कर्मण इति ।
उत्पत्तिः पुरोडाशादेः । संस्कारो व्रीह्यादेः । विकारः सोमस्य । आप्तिर्वेदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयातिशयत्वादविकारत्वान्नित्याप्तत्वाच्च कर्मफलाद्वैपरीत्यमित्यर्थः ।
गतिश्रुतेरिति ।
अर्चिरादिगतिश्रवणाद्ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्मोक्षः । ततो नित्याप्तत्वमसिद्धमित्यर्थः ।
गत्वा प्राप्तिः किं संयोगलक्षणा तादात्म्यलक्षणा वा , नोभयथाऽपीत्याह –
न सर्वगतत्वादिति ।
गत्यादिश्रुतेस्तात्पर्यं शङ्कापूर्वकं दर्शयति –
गत्यैश्वर्येत्यादिना ।
समुच्चयमभ्युपगम्य कर्मकार्यं किञ्चिन्मोक्षे न सम्भवतीत्युक्तम् ।
सोऽपि न सम्भवतीत्याह –
विरोधाच्चेत्यादिना ।