ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत् , न ; कर्मणः फलान्तरदर्शनात् । उत्पत्तिविकारसंस्काराप्तयो हि फलं कर्मणो दृश्यन्ते । उत्पत्त्यादिफलविपरीतश्च मोक्षः । गतिश्रुतेराप्य इति चेत् - ‘सूर्यद्वारेण’ ‘तयोर्ध्वमायन्’ (क. उ. २ । ३ । १६) इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत् , न ; सर्वगतत्वात् गन्तृभ्यश्चानन्यत्वात् । आकाशादिकारणत्वात्सर्वगतं ब्रह्म, ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः ; अतो नाप्यो मोक्षः । गन्तुरन्यद्विभिन्नदेशं च भवति गन्तव्यम् । न हि, येनैवाव्यतिरिक्तं यत् , तत्तेनैव गम्यते । तदनन्यत्वसिद्धिश्च ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु’ (भ. गी. १३ । २) इत्येवमादिश्रुतिस्मृतिशतेभ्यः । गत्यैश्वर्यादिश्रुतिविरोध इति चेत् - अथापि स्यात् यद्यप्राप्यो मोक्षः, तदा गतिश्रुतीनाम् ‘स एकधा’ (छा. उ. ७ । २६ । २) ‘स यदि पितृलोककामः भवति’ (छा. उ. ८ । २ । १) ‘स्त्रीभिर्वा यानैर्वा’ (छा. उ. ८ । १२ । ३) इत्यादिश्रुतीनां च कोपः स्यात् इति चेत् , न ; कार्यब्रह्मविषयत्वात्तासाम् । कार्ये हि ब्रह्मणि स्त्र्यादयः स्युः, न कारणे ; ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४)(बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः । प्रलीनकर्त्रादिकारकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कर्त्रादिविशेषवत् तच्छून्यं चेति उभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्तरन्मिथ्या स्यात् । अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम् ; ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०)(बृ. उ. ४ । ४ । १९) ‘अथ यत्रान्यत्पश्यति तदल्पम्’ (छा. उ. ७ । २४ । १) ‘अन्योऽसावन्योऽहमस्मि’ (बृ. उ. १ । ४ । १०) ‘उदरमन्तरं कुरुते’ ‘अथ तस्य भयं भवति’ (तै. उ. २ । ७ । १) इत्यादिश्रुतिशतेभ्यः । सत्यत्वं च एकत्वस्य ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यः । न च सम्प्रदानादिकारकभेदादर्शने कर्मोपपद्यते । अन्यत्वदर्शनापवादाश्च विद्याविषये सहस्रशः श्रूयन्ते । अतो विरोधो विद्याकर्मणोः । अतश्च समुच्चयानुपपत्तिः ॥