तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
एवं तर्हि आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः । न ; कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि, ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसङ्कीर्णा विद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसम्भवात् , कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्यसिद्धात्मदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात् , ‘प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि’ (बृ. उ. ४ । ५ । २) इत्येवमादिश्रुतिलिङ्गदर्शनात् । कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेत् , - अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्यायासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् ; तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति चेत् , न ; जन्मान्तरकृतानुग्रहात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोषः, यतो जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति ; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् ; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः । तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते । कर्मफलबाहुल्याच्च । पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासङ्ख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात् - इदं मे स्यादिदं मे स्यादिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् - कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् , कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत् , न ; नियमाभावात् । न हि, ‘प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्’ इति नियमोऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात् , साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम् । अतः सिद्धान्याश्रमान्तराणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥

कर्मणां विद्यासाधनत्वं श्रुत्वा गार्हस्थ्यमेवैकमनुष्ठेयमिति प्रत्यवतिष्ठन्ते कर्मजडाः –

एवं तर्हीति ।

श्रुतिस्मृतिष्वाश्रमान्तराणामपि विहितत्वविशेषात्तदीयकर्मसु कर्मत्वाविशेषाच्च ग्राम्यधर्मरागिणामेवैतच्चोद्यमित्याह न कर्मनेकत्वादिति ।

असङ्कीर्णत्वादिति ।

हिंसाद्यमिश्रितत्वादित्यर्थः ।

इतश्च कर्मणो विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यकमित्याह –

जन्मान्तरेति ।

कामिनां गार्हस्थ्यस्यानुष्ठेयत्वेऽपि न सर्वैरनुष्ठेयत्वमित्यत्र हेत्वन्तरमाह –

लोकार्थत्वाच्चेत्यादिना ।

गार्हस्थ्यस्यानावश्यकत्वेन वैकल्पिकमनुष्ठानमुक्तं तत्रातुल्यबलत्वेन विकल्पमाक्षिपतिकर्म प्रति श्रुतेरिति ।

जन्मान्तरकृतानुग्रहादिति परिहारभाष्यं विवृणोति –

यदुक्तमित्यादिना ।

कर्मणि यत्नाधिकस्यान्यथासिद्धत्वात् विकल्पविघातकत्वं न सम्भवतीत्यर्थः ।

इदानीं गृहस्थाश्रमकर्माणां बहिरङ्गत्वं संन्यासाश्रमकर्मणां त्वन्तरङ्गविद्यासाधनत्वमिति विशेषं दर्शयितुं चोद्यमुद्भावयति –

कर्मनिमित्तत्वादित्यादिना ।