आप्नोतिशब्दस्यौपचारिकमर्थं दर्शयितुं शङ्कामुखेन मुख्यार्थो बाधकमाह –
ननु सर्वगतमित्यादिना ।
परमार्थतो ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मानाप्त स्यादिति सम्बन्धः । भूतमात्राभिर्भूतांशैः कृता ये बाह्याः परिच्छिन्नाश्चान्नमयादयस्तदात्मत्वदर्शिन इत्यविद्याआ विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनमावरणलक्षणं लिङ्गं यस्याः सा तथोक्ता ।
स्वरूपेप्यग्रहणविपर्ययौ भवत इत्यत्र दृष्टान्तमाह –
प्रकृतेति ।
प्रकृतसंख्यापूरणस्य दशमस्य नवैव वयं वर्तामह इति विपर्ययः स्वरूपादर्शनं च यथेत्यर्थः ।
अदर्शननिमित्तामनाप्तिं विविच्य दर्शननिमित्तामाप्ति विवृणोति –
तस्यैवमिति ।
आद्यं ब्राह्मणवाक्यं व्याख्यायोत्तरं मन्त्रं संक्षेपतोऽर्थकथनेनावतारयति –
ब्रह्मविदाप्नोतीत्यादिना ।
सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषर्गुदाह्रियत इति सम्बन्धः । बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्वित्यविशेषेण प्रतीयते । ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसिद्धिरुपपद्यते । अव्याकृतादि ब्रह्मशब्दवाच्यतया सजातीयं , घटादि विजातीयम् । तस्मात्सजातीयविजातीयव्यावर्तकतया सत्यादिलक्षणस्य लक्षणत्वप्रसिद्धिरुपपद्यते । लक्षणाभिधानद्वारेण स्वरूपविशेषप्रतिपादने तात्पर्यमिति वाक्यस्य व्यर्थतादोषः परिहृतः ।
पूर्वत्र ब्रह्मविदित्यनेनाविशेषेणोक्तं वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्यगात्मतया वेदनं वक्तव्यमित्येवमर्था चर्गुदाह्रियत इत्याह –
अविशेषेण चेति ।
आपातप्रतिपन्नं विशेषणविशेष्यभावमादाय पदानि विभजते –
सत्यादीनि हि त्रीणीति ।
विशेषणार्थानीति ।
व्यावृत्त्यर्थानि ।
कुतो विशेषणविशेष्यभावप्रतीतिरित्यत आह –
विशेषणविशेष्यत्वादेवेति ।
नीलं महत्सुगन्ध्युत्पलमित्यादौ सत्येव विशेषण विशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि प्रसिद्धानेतान्यपि च तथाभूतानि नानार्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः ।
विशेषणविशेष्यभावस्य फलमाह –
एवं हीति ।
विशेषणविशेष्यभावमाक्षिपति –
नन्विति ।
नीलत्वं व्यभिचरदुत्पलं रक्तमपि सम्भवतीति नीलं विशेषणं घटते न तथा सत्यत्वादिकं व्यभिचरद्ब्रह्मान्तरं लोके प्रसिद्धम् । ततः सजातीयस्य व्यवच्छेद्यस्याभावाद्विशेषणविशेष्यभावो न घटत इत्यर्थः ।
विशेषणविशेष्यभावस्य तात्पर्येणाप्रतिपाद्यत्वादव्याकृतादिशास्त्रीयब्रह्मपदार्थव्यवच्छेदेना निर्वाच्यविशेषणविशेष्यभावसम्भवात्तद्द्वारेण ब्रह्मलक्षणं विवक्षितमित्याह –
नेति ।
संग्रहवाक्यं विवृणोति –
नायं दोष इत्यादिना ।
सर्वत एवेति । सजातीयाद्विजातीयाच्च । यथा महाभूतत्वेन सदृशभावात्पृथिव्यादेर्विसदृशाच्चाऽऽत्मादेराकशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः।एतदुक्तं भवति – अतिव्याप्त्यादिरहितो व्यावर्तको धर्मो लक्षणमिति न्यायवैशेषिकमीमांसकाः ।ब्रह्मपदव्युत्पतिबलेन यदविशेषतः प्रतिपन्नं किञ्चिन्महदस्तीति तत्सत्यं ज्ञानमनन्तमनृतजडपरिच्छेदविरोधिस्वरूपमिति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभूतं लक्षणं प्रमितिस्तु प्रमाणादेवेति । तार्किकाः पनर्लक्षणं केवलव्यतिरेक्यनुमानमाचक्षते तदा लक्षणादेव स्वभावविशेषप्रमितिः । यथा गुणवद्द्रव्यमिति लक्षणाद्गुणाश्रयत्वयोग्यस्वभावविशेषस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाभिधेयस्य भवति । यद्वा व्यवहारसिद्धिः फलं गणवद्द्रव्यमिति व्यवहर्तव्यं गुणवत्त्वान्न यदेवं न तदेवं यथा रूपं तथा सत्यत्वादिमद्ब्रह्मेति व्यवहर्तव्यं सत्यत्वादिभावान्न यदेवं यथा घट इति । एतच्च खण्डनयुक्त्यसहमानमपि व्यवहाराङ्गं भवतीति नातीव सूक्ष्मेक्षिका कार्या ।