तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते - सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम् , ‘ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमित्यवधारणात् । अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता ; अत इदमुच्यते - ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिः अवबोधः, - भावसाधनो ज्ञानशब्दः - न तु ज्ञानकर्तृ, ब्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह । न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्येते । ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत् , अनन्तं च ? यद्धि न कुतश्चित्प्रविभज्यते, तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात् , ‘यत्र नान्यद्विजानाति स भूमा, अथ यत्रान्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इति श्रुत्यन्तरात् । ‘नान्यद्विजानाति’ इति विशेषप्रतिषेधात् आत्मानं विजानातीति चेत् , न ; भूमलक्षणविधिपरत्वाद्वाक्यस्य । ‘यत्र नान्यत्पश्यति’ इत्यादि भूम्नो लक्षणविधिपरं वाक्यम् । यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति, स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते । अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात् न स्वात्मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः । आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः, ज्ञेयत्वेनैव विनियुक्तत्वात् ॥

पुनर्विशेषविशेष्यभावपक्षमवलम्ब्याऽऽह –

सत्यादिशब्दा इति ।

सत्यं ब्रह्मेत्युक्ते जाड्यव्यावृत्तिः परिच्छेदव्यावृत्तिश्च यद्यपि लभ्यते , जडस्य परिच्छिन्नस्य सर्वस्यानृतत्वाज्ज्ञानं ब्रह्मेत्युक्ते चानृतपरिच्छेदव्यावृत्तिर्लभ्यते स्वप्रकाशस्य बाधाविषयत्वात्परिच्छेदग्राहकप्रमाणाविषयत्वाच्च लक्षणमपि चैकैकं वैकल्पिकमदुष्टं तथाऽपि मन्दमतिव्युत्पादनाय स्यात्सत्यादिपदार्थव्याख्यानपूर्वकं प्रत्येकं व्यावर्त्यमाह –

सत्यमिति यद्रूपेणेत्यादिना ।

भावसाधन इति । भावव्युत्पत्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते तथाऽप्यत्र निर्विशेषं चिन्मात्रं भावव्युत्पत्त्या लक्ष्यते सत्यादिशब्दसन्निधानादिति द्रष्टव्यम् ।

विशेषनिषेधः शेषाभ्यनुज्ञाविषय इति न्यायेन प्रासङ्गिकं स्वज्ञातृत्वे तात्पर्यमाशङ्क्य निषेधति –

नान्यद्विजानातीत्यादिना ।

कर्तृत्वं कर्मत्वं चैकक्रियावच्छिन्नं धर्मद्वयं भिन्नाधिकरणं प्रसिद्धम् ।

स्वात्मनि च भेदाभावान्निरूपपत्तिके स्वज्ञातृत्वे तात्पर्यं कल्पयितुं न शक्यत इत्याह –

स्वात्मनि चेति ।