कोशपञ्चकोपन्यासस्य तात्पर्यमाह –
स हीत्यादिना ।
पक्षपुच्छशब्दप्रयोगात्सुपर्णाकारक्लृप्तिं दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धेरात्मनि स्थिरीकरणार्थं नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादनेनैवोपक्षयान्मध्ये ग्रन्थस्योपासनविधौ तात्पर्येण च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थत्वादिति न्यायेन यथा प्रयाजादिषु फलश्रवणमर्थवादस्तथाऽन्नमयादिप्रतिपत्तेरपि फलश्रवणमर्थवाद एव , तत्तद्बुद्धिस्थिरीकारस्य पूर्वपूर्वबुद्धिविलापनेनाऽऽत्मनः प्रतिपत्तिशेषत्वादिति द्रष्टव्यम् ।