तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
तत्रैतच्चिन्त्यम् - कथमनुप्राविशदिति । किम् , यः स्रष्टा, स तेनैवात्मनानुप्राविशत् , उत अन्येनेति ? किं तावद्युक्तम् ? क्त्वाप्रत्ययश्रवणात् , यः स्रष्टा, स एवानुप्राविशदिति । ननु न युक्तं मृद्वच्चेत्कारणं ब्रह्म, तदात्मकत्वात्कार्यस्य, कारणमेव हि कार्यात्मना परिणमते ; अतः अप्रविष्टस्यैव कार्योत्पत्तेरूर्ध्वं पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः । न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमनेन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत् , श्रुत्यन्तराच्च ‘अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इति ; नैवं युक्तम् , एकत्वाद्ब्रह्मणः । मृदात्मनस्त्वनेकत्वात् सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनानुप्रवेशः, मृदश्चूर्णस्य अप्रविष्टदेशत्वाच्च । न त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते ; कथं तर्हि प्रवेशः स्यात् ? युक्तश्च प्रवेशः, श्रुतत्वात् - ‘तदेवानुप्राविशत्’ इति । सावयवमेवास्तु ; तर्हि सावयवत्वात् मुखो हस्तप्रवेशवत् नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेत् , न ; अशून्यदेशत्वात् । न हि कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेण आत्मशून्यः प्रदेशोऽस्ति, यं प्रविशेज्जीवात्मना । कारणमेव चेत्प्रविशेत् , जीवात्मत्वं जह्यात् , यथा घटो मृत्प्रवेशे घटत्वं जहाति । ‘तदेवानुप्राविशत्’ इति च श्रुतेर्न कारणानुप्रवेशो युक्तः । कार्यान्तरमेव स्यादिति चेत् - तदेवानुप्राविशदिति जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरमेव आपद्यत इति चेत् , न ; विरोधात् । न हि घटो घटान्तरमापद्यते, व्यतिरेकश्रुतिविरोधाच्च । जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् ; तदापत्तौ मोक्षासम्भवाच्च । न हि यतो मुच्यमानः, तदेव आपद्यते । न हि शृङ्खलापत्तिः बद्धस्य तस्करादेः । बाह्यान्तर्भेदेन परिणतमिति चेत् - तदेव कारणं ब्रह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परिणतमिति चेत् , न ; बहिष्ठस्य प्रवेशोपपत्तेः । न हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते । बहिष्ठस्यानुप्रवेशः स्यात् , प्रवेशशब्दार्थस्यैवं दृष्टत्वात् - यथा गृहं कृत्वा प्राविशदिति । जलसूर्यकादिप्रतिबिम्बवत् प्रवेशः स्यादिति चेत् , न ; अपरिच्छिन्नत्वादमूर्तत्वाच्च । परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात् , न त्वात्मनः ; अमूर्तत्वात् , आकाशादिकारणस्य आत्मनः व्यापकत्वात् । तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्प्रवेशो न युक्तः । एवं तर्हि नैवास्ति प्रवेशः ; न च गत्यन्तरमुपलभामहे, ‘तदेवानुप्राविशत्’ इति श्रुतेः । श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम् । न चास्माद्वाक्यात् यत्नवतामपि विज्ञानमुत्पद्यते । हन्त तर्ह्यनर्थकत्वादपोह्यमेतद्वाक्यम् ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति ; न, अन्यार्थत्वात् । किमर्थमस्थाने चर्चा ? प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यार्थः अस्ति ; स स्मर्तव्यः - ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘यो वेद निहितं गुहायाम्’ (तै. उ. २ । १ । १) इति । तद्विज्ञानं च विवक्षितम् ; प्रकृतं च तत् । ब्रह्मस्वरूपावगमाय च आकाशाद्यन्नमयान्तं कार्यं प्रदर्शितम् ; ब्रह्मावगमश्च आरब्धः । तत्र अन्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयः ; तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितः ; तत्र च आनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अतः परमानन्दमयलिङ्गाधिगमद्वारेण आनन्दविवृद्ध्यवसान आत्मा । ब्रह्म पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते । न ह्यन्यत्रोपलभ्यते ब्रह्म, निर्विशेषत्वात् ; विशेषसम्बन्धो ह्युपलब्धिहेतुर्दृष्टः - यथा राहोश्चन्द्रार्कविशेषसम्बन्धः । एवमन्तःकरणगुहात्मसम्बन्धो ब्रह्मण उपलब्धिहेतुः, संनिकर्षात् , अवभासात्मकत्वाच्च अन्तःकरणस्य । यथा च आलोकविशिष्टघटाद्युपलब्धिः, एवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात् , तस्मात् उपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव । तद्वृत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते ॥

प्रवेशस्यानिर्वाच्यताद्योतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्यं दर्शयितुं विचारमारभते –

तत्रैतच्चिन्तमित्यादिना ।

विमर्शे सति क्त्वाश्रुत्यनुरोधात्स्रष्टुरेव प्रवेश इत्युक्तं सिद्धान्तिना ।

पूर्ववाद्याह –

ननु न युक्तमिति ।

सृष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसम्भवे सति कर्त्रैक्यं क्त्वाश्रुत्या बोध्येत न तु प्रवेशस्योत्तरकालता सम्भवति । सृष्टिसमय एवोपादानस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः ।

एतदेव विवृणोति –

कारणमेव हीति ।

अप्रविष्टे यथा मठादौ देवदत्तस्य प्रवेशो दृष्टस्तथा कार्योत्पत्तेरूर्ध्वं पृथक्प्रवेशो न सम्भवतीत्यर्थः ।

सिद्धान्त्येकदेशिनां मतमुद्भाव्य पूर्ववादी दूषयति –

यथा घट इत्यादिना ।

स्रष्टुरन्यस्य वा प्रवेशो न सम्भवतीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धान्त्येकदेश्याह –

कथमिति ।

नास्त्येवेति न वक्तव्यमित्याहयुक्तश्चेति ।

स एवाऽऽह गतिं –

सावयवमेवेति ।

पूर्ववादी दूषयतो –

नाशून्यत्वादिति ।

कार्यात्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कारमेव देशस्तद्वतिरेकेण न ह्यन्यः प्रदेशोऽस्तीति ।

यत्कारणमेव कार्याकारेण परिणतं तत्प्रति कार्यविशेषो जीवात्मा प्रवेक्ष्यतीति न शङ्कनीयमित्याह –

कारणमेव चेदिति ।

कार्यविशेषस्य प्रवेशमङ्गीकृत्य दूषणमुक्तं स न सम्भवति श्रुतिविरोधादित्याह– –

तदेवेति ।

कारणपरामर्शकेन तच्छब्देन कार्यमुपलक्ष्य कारान्तरस्य तत्र विधीयतेऽप्राप्तदेशसम्भवात् ।

अतो न श्रुतिविरोध इति सिद्धान्तैकदेशिमतमुद्भाव्य दूषयति –

कार्यान्तरमेवेत्यादिना ।

कारणवाचकेन तच्छब्देन कार्यलक्षणायामविवक्षितलक्षणा चेत्प्रसज्येत तर्हि कारणपर एव तच्छब्दोऽस्त्वित्याह्यन्यः सिद्धान्तैकदेशी –

बाह्येति ।

अस्मिन्पक्षे प्रवेशश्रुतेर्मुख्यार्थो न लभ्येतेत्याह –

न बहिष्ठेति ।

अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति –

जल इत्यादिना ।

एवं सिद्धान्तैकदेशीयं निरस्य पूर्ववाद्युपसंहरति –

एवं तर्हीति ।

नैवास्ति प्रवेशो ब्रह्मणस्ततोऽन्यस्यापि प्रवेशो न सम्भवतीत्युक्तमित्याह –

न चेति ।

इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह –

तदेवानुप्राविशदिति ।

सा च श्रुतिः स्रष्टुः प्रवेशमाह । सा चास्माकं मीमांसकानां प्रमाणं ततस्तद्विरोधेनान्यस्य प्रवेशकल्पनाऽयुक्तेति भावः ।

तर्हि श्रुतिशरणतयैव ब्रह्मण एव प्रवेश उच्य्यतामित्याशङ्क्याऽऽह –

न चेति ।

तस्मादन्धो मणिमविन्ददितिवदर्थशून्यमेवेदं वाक्यमिति निगमयति –

हन्तेति ।

शक्तिगोचरस्यार्थस्यासम्भवादर्थशून्यत्वं तात्पर्यगोचरस्य वा ? नाऽऽद्यः ।

आकाशादेरविप्रकृष्टदेशेऽपि जलेऽमूर्तस्य प्रतिबिम्बभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाचाविद्यासु प्रतिबिम्बितस्य सृष्ट्युत्तरकालमन्तःकरणादिषु प्रतिबिम्बभावसम्भवादित्याह –

नेति ।

न द्वितीय इत्याह –

अन्यार्थत्वादिति ।

एतत्स्फुटयति –

किमर्थमित्यादिना ।

अतः परमिति । बुद्धिगुहाप्रवेशादनन्तरमानन्दमय एव विशिष्टोऽर्थो विशेष्यस्य चिद्धातोर्लिङ्गं विशिष्टस्य विशेष्याव्यभिचारदर्शनात्तदधिगमद्वारेणाऽऽनन्दविवृद्ध्यवसान आत्मा ब्रह्मरूपोऽस्यामेव गुहायामधिगन्तव्य इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिधीयत इत्यर्थः ।

बुद्धिगुहायामेव ब्रह्मण उपलब्धिसम्भवात्तत्रैव प्रवेशोऽभिधित्सित इत्याह –

न हीति ।

नन्वन्यत्रोपलब्ध्यनर्हं ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्क्योपधेर्योग्यताविशेषासम्भवादित्याह –

विशेषेति ।

सन्निकर्षादीति । अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्याभिव्यक्तिर्न स्वतः । अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्चकमन्वयव्यतिरेकाभ्यामित्यर्थः ।

यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छस्वभावके प्रतिबिम्बते तथा सत्त्वप्रधानस्यान्तःकरणस्य प्रसादस्वाभाव्याद्घटते तत्र ब्रह्मोपलब्धिरित्याह –

अवभासात्मकत्वाच्चेति ।

किञ्च यथा जाड्यसाम्येऽपि तमोलक्षणावरणाभिभवसमर्थ आलोकोऽङ्गीक्रियते तथा जाड्यसाम्येऽप्यन्तःकरणस्यैव प्रत्ययाकारपरिणतस्याज्ञानलक्षणावरणाभिभवसामर्थ्यमङ्गीकर्तव्यमित्याह –

यथा चेति ।

निलानं गृहप्रासादादिमूर्तसन्निवेशविशेषोऽवयवसंस्थानविशेषराहित्यमनिलयनम् ।