असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वै तत्सुकृतम् । रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति ॥ १ ॥
असद्वा इदमग्र आसीत् । असदिति व्याकृतनामरूपविशेषविपरीतरूपम् अव्याकृतं ब्रह्म उच्यते ; न पुनरत्यन्तमेवासत् । न ह्यसतः सज्जन्मास्ति । इदम् इति नामरूपविशेषवद्व्याकृतं जगत् ; अग्रे पूर्वं प्रागुत्पत्तेः ब्रह्मैव असच्छब्दवाच्यमासीत् । ततः असतः वै सत् प्रविभक्तनामरूपविशेषम् अजायत उत्पन्नम् । किं ततः प्रविभक्तं कार्यमिति - पितुरिव पुत्रः ? नेत्याह । तत् असच्छब्दवाच्यं स्वयमेव आत्मानमेव अकुरुत कृतवत् । यस्मादेवम् , तस्मात् तत् ब्रह्मैव सुकृतं स्वयं कर्तृ उच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना, तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतम् उच्यते । सर्वथापि तु फलसम्बन्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके । यदि पुण्यं यदि वा अन्यत् सा प्रसिद्धिः नित्ये चेतनकारणे सति उपपद्यते, तस्मादस्ति ब्रह्म, सुकृतप्रसिद्धेरिति । इतश्चास्ति ; कुतः ? रसत्वात् । कुतो रसत्वप्रसिद्धिर्ब्रह्मण इत्यत आह - यद्वै तत्सुकृतं रसो वै सः । रसो नाम तृप्तिहेतुः आनन्दकरो मधुराम्लादिः प्रसिद्धो लोके । रसमेव हि अयं लब्ध्वा प्राप्य आनन्दी सुखी भवति । नासत आनन्दहेतुत्वं दृष्टं लोके । बाह्यानन्दसाधनरहिता अपि अनीहा निरेषणा ब्राह्मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः ; नूनं ब्रह्मैव रसस्तेषाम् । तस्मादस्ति तत्तेषामानन्दकारणं रसवद्ब्रह्म । इतश्चास्ति ; कुतः ? प्राणनादिक्रियादर्शनात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणिति अपानेन अपानिति । एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निर्वर्त्यमाना दृश्यन्ते । तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं सम्भवति, अन्यत्रादर्शनात् । तदाह - यत् यदि एषः आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यात् न भवेत् , को ह्येव लोके अन्यात् अपानचेष्टां कुर्यादित्यर्थः । कः प्राण्यात् प्राणनं वा कुर्यात् ; तस्मादस्ति तद्ब्रह्म, यदर्थाः कार्यकरणप्राणनादिचेष्टाः ; तत्कृत एव च आनन्दो लोकस्य । कुतः ? एष ह्येव पर आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मानुरूपम् । स एवात्मा आनन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः । भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तद्ब्रह्म । सद्वस्त्वाश्रयणेन हि अभयं भवति ; नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते । कथमभयहेतुत्वमिति, उच्यते - यदा ह्येव यस्मात् एषः साधकः एतस्मिन् ब्रह्मणि - किंविशिष्टे ? अदृश्ये दृश्यं नाम द्रष्टव्यं विकारः, दर्शनार्थत्वाद्विकारस्य ; न दृश्यम् अदृश्यम् , अविकार इत्यर्थः । एतस्मिन्नदृश्ये अविकारेऽविषयभूते, अनात्म्ये अशरीरे, यस्माददृश्यं तस्मादनात्म्यम् , यस्मादनात्म्यं तस्मादनिरुक्तम् ; विशेषो हि निरुच्यते ; विशेषश्च विकारः ; अविकारं च ब्रह्म, सर्वविकारहेतुत्वात् ; तस्मात् अनिरुक्तम् । यत एवम् , तस्मादनिलयनं निलयनं नीड आश्रयः न निलयनम् अनिलयनम् अनाधारं तस्मिन् एतस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ब्रह्मणीति वाक्यार्थः । अभयमिति क्रियाविशेषणम् । अभयामिति वा लिङ्गान्तरं परिणम्यते । प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते । अथ तदा सः तस्मिन्नानात्वस्य भयहेतोरविद्याकृतस्यादर्शनादभयं गतो भवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति, तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति, न आत्मन एव आत्मनो भयं युक्तम् ; तस्मात् आत्मैव आत्मनः अभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु ; तच्चायुक्तमसति भयत्राणे ब्रह्मणि । तस्मात्तेषामभयदर्शनादस्ति तदभयकारणं ब्रह्मेति । कदा असौ अभयं गतो भवति साधकः ? यदा नान्यत्पश्यति आत्मनि च अन्तरं भेदं न कुरुते, तदा अभयं गतो भवतीत्यभिप्रायः । यदा पुनरविद्यावस्थायां हि यस्मात् एषः अविद्यावान् अविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि च एतस्मिन् ब्रह्मणि, उत अपि, अरम् अल्पमपि, अन्तरं छिद्रं भेददर्शनं कुरुते ; भेददर्शनमेव हि भयकारणम् ; अल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्भेददर्शनाद्धेतोः तस्य भेददर्शिनः आत्मनो भयं भवति । तस्मादात्मैवात्मनो भयकारणमविदुषः ; तदेतदाह - तत् ब्रह्म त्वेव भयं भेददर्शिनो विदुषः ईश्वरोऽन्यो मत्तः अहमन्यः संसारीत्येवंविदुषः भेददृष्टमीश्वराख्यं तदेव ब्रह्म अल्पमप्यन्तरं कुर्वतः भयं भवति एकत्वेन अमन्वानस्य । तस्मात् विद्वानप्यविद्वानेवासौ, योऽयमेकमभिन्नमात्मतत्त्वं न पश्यति । उच्छेदहेतुदर्शनाद्ध्युच्छेद्याभिमतस्य भयं भवति ; अनुच्छेद्यो ह्युच्छेदहेतुः ; तत्र असत्युच्छेदहेतौ उच्छेद्ये न तद्दर्शनकार्यं भयं युक्तम् । सर्वं च जगद्भयवद्दृश्यते । तस्माज्जगतो भयदर्शनाद्गम्यते - नूनं तदस्ति भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकम् , यतो जगद्बिभेतीति । तत् एतस्मिन्नप्यर्थे एषः श्लोकः भवति ॥