तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहातस्य ॥ ४ ॥
भीषा भयेन अस्मात् वातः पवते । भीषोदेति सूर्यः । भीषा अस्मात् अग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते ; तद्युक्तं प्रशास्तरि सति ; यस्मात् नियमेन तेषां प्रवर्तनम् , तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म । यतस्ते भृत्या इव राज्ञः अस्मात् ब्रह्मणः भयेन प्रवर्तन्ते तच्च भयकारणमानन्दं ब्रह्म । तस्य अस्य ब्रह्मणः आनन्दस्य एषा मीमांसा विचारणा भवति । किमानन्दस्य मीमांस्यमिति, उच्यते - किमानन्दो विषयविषयिसम्बन्धजनितः लौकिकानन्दवत् , आहोस्वित् स्वाभाविकः, इत्येवमेषा आनन्दस्य मीमांसा ॥

तच्च भयकारणं ब्रह्माऽऽनन्दरूपमुक्तं यदेष आकाश आनन्दो न स्यादिति । तत्राऽऽनन्दश्च लोके जन्यः प्रसिद्धस्ततो विचारमारभते –

तस्यास्येत्यादिना ।