तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ॥ ५ ॥
स यश्चायं पुरुष इति । यः गुहायां निहितः परमे व्योम्नि आकाशादिकार्यं सृष्ट्वा अन्नमयान्तम् , तदेवानुप्रविष्टः, सः य इति निश्चीयते । कोऽसौ ? अयं पुरुषे । यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति, सः यश्चासावादित्ये इति निर्दिश्यते । स एकः भिन्नप्रदेशघटाकाशाकाशैकत्ववत् । ननु तन्निर्देशे स यश्चायं पुरुष इत्यविशेषतोऽध्यात्मं न युक्तो निर्देशः ; यश्चायं दक्षिणेऽक्षन्निति तु युक्तः, प्रसिद्धत्वात् । न, पराधिकारात् । परो ह्यात्मा अत्र अधिकृतः ‘अदृश्येऽनात्म्ये’ ‘भीषास्माद्वातः पवते’ ‘सैषानन्दस्य मीमांसा’ इति । न हि अकस्मादप्रकृतो युक्तो निर्देष्टुम् ; परमात्मविज्ञानं च विवक्षितम् । तस्मात् पर एव निर्दिश्यते - स एक इति । नन्वानन्दस्य मीमांसा प्रकृता ; तस्या अपि फलमुपसंहर्तव्यम् । अभिन्नः स्वाभाविकः आनन्दः परमात्मैव, न विषयविषयिसम्बन्धजनित इति । ननु तदनुरूप एव अयं निर्देशः - ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इति भिन्नाधिकरणस्थविशेषोपमर्देन । नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम् ; न अनर्थकम् , उत्कर्षापकर्षापोहार्थत्वात् । द्वैतस्य हि यो मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्रभ्यन्तर्गतः स चेत्पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति, न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम् ॥

आदित्यग्रहणस्याऽऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितत्वं दर्शयितुं चोद्यमुद्भावयति –

नन्विति ।

“य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः” (बृ. उ. ५ । ५ । २) इत्यादौ श्रुत्यन्तरे मण्डलस्थस्य दक्षिणाक्षिस्येनैक्यस्य प्रसिद्धत्वादिहाप्यादित्यस्थेनैक्यनिर्देशे दक्षिणाक्षिग्रहणं युक्तमित्यर्थः ।

अध्यात्ममधिदवतं च लिङ्गात्मोपासनविवक्षायां तथा तद्विवक्षितमित्याह –

न परेति ।

य एव चिद्धातुर्निरतिशयानन्द उत्कृष्टोपाधौ प्रतिबिम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिमिम्बित इति परमानन्दमपेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विवक्षितमित्यर्थः ।