विचारारम्भमुपपाद्य सिद्धान्तमुपक्रमते –
स एव तु स्यादिति ।
औपाधिकभेदभिन्नोऽप्येवंवित्स्वतः पर एव स्यादित्यर्थः ।
अविद्याध्यारोपिताब्रह्मत्वव्यावृत्तिरेव ब्रह्मप्राप्तिर्विवक्षितेति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्तप्राप्तिरित्याह –
कथमिति ।
परिहरति –
विद्यामात्रेति ।
अन्यथाऽप्युपपतिं शङ्कते –
मार्गेति ।
गन्तुः स्वतो ग्रामत्वाभावेऽपि यथा मार्गज्ञानोपदेशः सार्थकस्तथा जीवस्य स्वतो ब्रह्मत्वाभावेऽपि विद्योपदेशः , अभ्यासद्वारेण ब्रह्मप्राप्तिहेतुत्वादित्यर्थः । त्वं ग्रामोऽसीति न तत्रोपदेशः ।
अत्राभेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याह –
न वैधर्म्यादिति ।
यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति का तर्हि गतिर्व्यतिरिक्तेश्वरदर्शनस्येत्याशङ्क्याऽऽह –
अन्यस्य चेति ।
कल्पितभेदविशिष्टरूपेणेश्वरस्याविद्याकृतत्वे मिथ्यात्वे सति विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते । ईश्वरो मम प्राशास्तेति मिथ्यैतद् , यतस्तस्य मम चैकात्म्यमेव परमार्थमिति विद्वदृष्ट्या विशिष्टस्यासत्त्वमित्यर्थः ।
दृष्टान्तेन वैषम्यं शङ्कते –
नैवमिति ।
यथा चन्द्रैकत्वदर्शनाद्द्वितीयश्चन्द्रो न गृह्यते नैवं ब्रह्मविदा न गृह्यते व्यतिरिक्तेश्वरः । प्रतिनियतप्रपञ्चावभासस्य भोजनादिप्रवृत्त्यनुपपत्त्या जीवन्मुक्तस्याप्यभ्युपगमात्प्रपञ्चप्रतिनियमस्य चेश्वराधीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यतिरेकाभासदर्शनं विदुषस्तथाऽपि न तद्भयकारणं न हि मायावी स्वविरचितव्याघ्राभासाद्बिभेति ।
अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह –
न सुप्तेति ।
सुषुप्ते व्यतिरेकाग्रहणमसत्त्वसाधकं न भवतीत्याह –
सुषुप्त इति ।
यथेषुकार इष्वासक्तमनस्तया तद्व्यतिरिक्तं विद्यमानमपि न पश्यति सुषुप्तेऽपि निद्रासुखासक्ततया सदपि द्वितीयं न पश्यति न त्वाभावादित्यर्थः ।
अनासक्तस्य तद्व्यतिरिक्तादर्शनेऽपि तद्दर्शनमेवास्ति सुषुप्ते तु न किञ्चिदज्ञासिषमिति प्रत्ययात्सुखस्याप्यात्मतादाम्त्यदज्ञानस्य च व्यक्तिरिक्तत्व निर्वचनादतस्तात्त्विकद्वितीयाभावादेवाग्रहणमित्याह –
न सर्वग्रहणादिति ।
सुषुप्ते चेदनुपलम्भादसत्त्वं तर्हि जाग्रत्स्वप्नयोरुपलम्भाद्द्वैतस्य सत्त्वं किं न स्यादित्याह –
जाग्रदिति ।
अनात्मादावात्मत्वादिबुद्धिरविद्या तद्भाव एव द्वैतोपलम्भान्नोपलम्भमात्रं सत्त्वसाधकमन्यथा शुक्तिरूप्यादेरपि सत्त्वप्रसङ्गादित्याह –
नाविद्येति ।
पूर्ववाद्याह –
सुषुप्त इति ।
सुषुप्ते द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं न तु भेदाभावनिबन्धनमतो यदुक्तं सुषुप्ते सर्वात्मकब्रह्मभूतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति तदसदित्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः । किं ग्रहणप्रागभवो जायत उताप्रकाशारोपः किंवाऽग्रहणाकाराविकृतस्वरूपावस्थानम् ? नाऽऽद्यः । प्रागभावस्यानादित्वाभ्युपगमात् । न द्वितीयः । परैर्द्वितीयस्यास्वप्रकाशतास्वाभाव्याभ्युपगमेनाप्रकाशारोपानभ्युपगमादप्रकाशारोपे च सर्वस्य स्वप्रकाशब्रह्मात्मतया अभ्युपगन्तव्यत्वेनास्मत्समीहितसिद्धिप्रसङ्गात् ।
न तृतीय इत्याह –
न स्वाभाविकत्वादिति ।
अविकृतस्वरूपावस्थानं नाविद्याकार्यमनागन्तुकत्वादित्यर्थः ।
एतत्स्फुटयति –
द्रव्यस्य हीत्यादिना ।
सन्मात्रं द्रव्यमुच्यते स्वातन्त्र्यसिद्ध्यभिप्रायेण , न वैशेषिकाभिप्रायेण क्रियावद्गुणवत्समवायिकारण द्रव्यं मानाभावादिति द्रष्टव्यम् । अविक्रियेति । विक्रियाभावोपलक्ष्यं स्वरूपमनपेक्ष्य सिद्धत्वादित्यर्थः । ग्रहणादिविक्रिया न स्वाभाविकी परापेक्षत्वात्स्फटिकलौहित्यवदित्यर्थः ।
यदुक्तमनपेक्ष्य सिद्धत्वादविक्रियत्वमिति तत्स्फुटयति –
यद्दीति।
एवं स्वमते चित्सत्ताव्यतिरिक्तेश्वरस्य भयहेतोरभावादभयं विदुषः सम्भवतीत्युपपाद्य द्वैतीयपक्षे तदसम्भवमाह –
येषामिति ।
सतोऽन्यस्य स्वरूपे स्थिते नष्टे वा मा भूद्ध्वंसो व्याघातादनवस्थानाच्च तर्ह्यसत एव ।
भयस्योत्पादेऽभयप्राप्तिर्भविष्यतीत्याशङ्क्याऽऽह –
न चासत इति ।
व्यतिरिक्तेश्वरस्य सत्तामात्रेण न भयहेतुत्वं किन्तु प्राणिकृतधर्माधर्माद्यपेक्षस्य , मुक्तस्य तु तदभावादभयं भविष्यतीत्याशङ्क्य नैतत्साङ्ख्येन वाच्यम् ।
अधर्मादेरपि सतस्तेनात्यन्तासत्त्वानङ्गीकारान्नैयायिकादिमतेऽपि सति हेतौ कार्यात्यन्ताभावस्य दुखधारणत्वात्तेनापि न वाच्यमित्याह –
न तस्यापीति ।
किञ्च सच्चेदसत्त्वमापद्यतेऽधर्मादिकं तर्ह्यात्मन्यपि कः प्रश्वासस्तस्मात्स्वभाववैपरीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह –
सदसतोरिति ।
स्वमतं निगमयति –
एकत्वपक्ष इति ।
अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्वमिष्टं ततो धर्मोत्पादविनाशयोर्विकारित्वमनित्यत्वं च प्रसज्येतेति शङ्कते –
विद्याविद्ययोरिति ।
कल्पितयोर्विद्याविद्ययोरात्मनि भयाभयहेतुत्वसम्भवान्नाऽऽत्मधर्मत्वे प्रमाणमस्ति प्रत्युत वेद्यत्वाद्रूपादिवदात्मधर्मत्वं नास्तीत्यनुमातुं शक्यत इत्याह –
न, प्रत्यक्षत्वादिति ।
चिन्मात्रतन्त्राऽनादिरनिर्वाच्याऽविद्याऽन्तःकरणरूपेण परिणमते तच्चान्तःकरणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते तस्मिन्प्रतिबिम्बितश्चिद्धातुः स्वोपाधिधर्मेणैव भ्रान्तः सम्यग्दर्शीति च व्यवह्रियते न तत्त्वतो विद्याविद्यावत्त्वमित्याह –
ते च पुनरिति ।
उक्तन्यायेन ब्रह्मवित्तत्वतो ब्रह्माभिन्न इत्युक्तम् ।
तत्र परोक्तमुद्भाव्य निरस्यति –
अभेदे एतमित्यादिना ।
नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेशः संक्रमणं किंत्वविषयब्रह्मात्मताज्ञानेनाऽऽनन्दमयस्याऽऽत्मतया भ्रान्तिगृहीतस्यातिक्रमणं बाधोऽत्र विवक्षित इत्यर्थः ।
अन्यथा वेति ।
नीडे पक्षिप्रवेशवद्वेत्यर्थः ।
यद्यप्यन्नमये मुख्यं संक्रमणं न सम्भवति तथाऽपि मनोबुद्ध्योर्बहिर्विषये प्रवृत्तयोस्ततो व्यावृत्त्य स्वरूपेऽवस्थानं संक्रमणं दृष्टं तथा दुःखिन आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह –
मनोमयस्येति ।
स्वरूपावस्थानस्यानागन्तुकत्वात्प्रक्रमविरोधाच्च न तन्मुख्यं संक्रमणमित्याह –
नेति ।
ज्ञानमात्रत्वे वा संक्रमणस्य किं फलतीत्यत आह –
ज्ञानमात्रत्वे चेति ।
मुख्यासम्भवे गौणार्थग्रहण न्याय्यमेवातोऽधिष्ठानयाथात्म्यप्रतिपत्त्या विशिष्टस्याध्यस्तस्य बाधनमेव संक्रमणं फलतीति भावः ।
इतश्च न मुख्यं संक्रमणमन्वेषणीयमित्याह –
वस्त्वन्तराभावाच्चेति ।
संक्रमणस्यौपचारिकत्वं व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसंहारच्छलेनाऽऽह –
तस्मादिति ।
साध्वसाधुनी स्तः प्रकाशेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं ततोऽतिरिक्तं यदर्थनर्थहेतुत्वं नामविशेषरूपं तन्न वस्तु सत्प्रकाशान्यत्वेनासत्त्वादप्रकाशमानत्वाच्चेत्यभिप्रेत्याऽऽह –
स्वेन विशेषरूपेणेति ।