स च तपस्तप्त्वेति ।
कुत्रेदं पित्रोक्तं लक्षणं क्वेदं लक्षणं वर्तते पूरिपूर्णं भवतीत्येकाग्रेण चेतसां पर्यालोच्यान्नं ब्रह्मेति व्यजानात् । अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्वप्रतिपत्तृसाधारणं स्थूलदेहकारणं भूतपञ्चकं विराट्संज्ञकमन्नशब्देनोच्यते । तस्य स्थूलभौतिककारणत्वात् । “यतो वा इमानि भूतानि”(तै.उ. ३-१-१) इतिलक्षणस्य यत्र योजयितुं शक्यत्वात्तद्ब्रह्मेति प्रतिपन्नवानित्यर्थः ।