विराज उत्पत्तिदर्शनाच्छ्रुतिस्मृतिषु लक्षणं तत्र सम्पूर्णं न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणशब्दलक्ष्यं हिरण्यगर्भं सङ्कल्पाध्यवसायशक्तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्यं ब्रह्मेति व्यजानात् ।