तैत्तिरीयोपनिषद्भाष्यम्
प्रथमोऽनुवाकः
वनमालाव्याख्या
 
यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते ।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १ ॥

विघ्नेश्वरं विघ्नशान्त्यै वाणीं वाचः प्रवृत्तये ।
गुरून्गूढार्थभानाय प्रणमामि निरन्तरम् ॥ १ ॥

जगन्मङ्गलरूपाय सृष्टिस्थित्यन्तकारिणे ।
नमो लक्ष्मीसमेताय कृष्णाय परमात्मने ॥ २ ॥

परिपूर्णं नित्यशुद्धं निर्विशेषं स्वयम्प्रभम् ।
सत्यानन्दस्वरूपं यत्तदहं ब्रह्म निर्भयम् ॥ ३ ॥

आचार्यस्य प्रसादेन पूर्वपुण्यैकजन्मना ।
तैत्तिरीयकभाष्यस्य व्याख्यां कुर्वेऽतिभक्तितः ॥ ४ ॥

तैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारः तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन सामान्येनोपलक्षितं सत्यज्ञानादिना स्वरूपलक्षणेन विशेषतो निश्चितं नमस्करोति —

यस्माज्जातमिति ।

ज्ञानात्मन इति स्वरूपलक्षणं सूचितम् ॥ १ ॥