तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम् - किं कर्मभ्य एव केवलेभ्यः परं श्रेयः, उत विद्यासंव्यपेक्षेभ्यः, आहोस्विद्विद्याकर्मभ्यां संहताभ्याम् , विद्याया वा कर्मापेक्षायाः, उत केवलाया एव विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात् , समस्तवेदार्थज्ञानवतः कर्माधिकारात् ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मरणात् । अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना । ‘विद्वान्यजते’ ‘विद्वान्याजयति’ इति च विदुष एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र ज्ञात्वानुष्ठानमिति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते, वेदोऽनर्थकः स्यात् । न ; नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके । कर्मभ्यश्चेच्छ्रेयः, अनित्यं स्यात् ; तच्चानिष्टम् । ननु काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात् नित्यानुष्ठानाच्च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत् , तच्च न, कर्मशेषसम्भवात्तन्निमित्ता शरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम् ; कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च । यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च न ; श्रुतज्ञानव्यतिरेकादुपासनस्य । श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते, नोपासनज्ञानमपेक्षते । उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते मोक्षफलम् ; अर्थान्तरप्रसिद्धेश्च स्यात् ; ‘श्रोतव्यः’ इत्युक्त्वा तद्व्यतिरेकेण ‘मन्तव्यो निदिध्यासितव्यः’ इति यत्नान्तरविधानात् मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम् । एवं तर्हि विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः ; विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम् ; यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीनां मन्त्रसशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम् , एवं विद्याहितैः कर्मभिः मोक्ष आरभ्यत इति चेत् , न ; आरभ्यस्यानित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत् , न ; ज्ञापकत्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य ज्ञापकम् , नाविद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं वा अविनाशि भवेत् । एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् ॥
अत्रैतदिति ; केवलेभ्य इति ; उत विद्येति ; आहोस्विदिति ; विद्यया वेति ; उत केवलयैवेति ; तत्रेत्यादिना ; समस्तेति ; वेद इति ; अधिगमश्चेति ; विद्वानिति ; ज्ञात्वेति ; कृत्स्नश्चेति ; कर्मभ्यश्चेदिति ; अनर्थकः स्यादिति ; नेत्यादिना ; नित्यो हीति ; कर्मकार्यस्य चेति ; कर्मभ्यश्चेदिति ; तच्चेति ; काम्येति ; तच्च नेति ; तन्निमित्तेति ; प्रत्युक्तमिति ; कर्मशेषस्य चेति ; इति चेति ; यच्चोक्तमित्यादिना ; श्रुतज्ञानेन ; श्रुतज्ञानमात्रेण हीति ; नोपासनमपेक्षत इति ; उपासनं चेति ; अर्थान्तरप्रसिद्धिश्च स्यादिति ; श्रोतव्य इत्युक्त्वेति ; मनननिदिध्यासनयोश्चेति ; एवं तर्हीति ; विद्यासहितानां चेति ; कार्यान्तरेति ; यथेति ; नारभ्यस्येति ; वचनादिति ; नेति ; वचनं नामेत्यादिना ; नाविद्यमानस्य कर्त्रिति ; न हीति ; नित्यमिति ; आरब्धं वेति ; एतेनेति ;

आद्यवादे केवलाया विद्याया मुक्तिसाधनत्वं साधितमपि विशिष्य समुच्चयनिराकरणेन पुनः साधयितुं चिन्तामुपक्रमते —

अत्रैतदिति ।

विद्याकर्मणोः फलभेदज्ञानार्थमेतद्वक्ष्यमाणं वस्तु चिन्त्यत इत्यर्थः ।

एवकारस्य व्याख्यानम् —

केवलेभ्य इति ।

उत विद्येति ।

विद्या परब्रह्मविद्या, उपसर्जनतया तत्सापेक्षेभ्य इत्यर्थः ।

विद्याकर्मणोः समप्राधान्यपक्षमाह —

आहोस्विदिति ।

विद्याप्राधान्यकोटिमाह —

विद्यया वेति ।

सिद्धान्तकोटिमाह —

उत केवलयैवेति ।

पूर्वपक्षमाह —

तत्रेत्यादिना ।

‘वेदमनूच्य’ इत्यादौ श्रुतेः कर्मस्वत्यन्तादरदर्शनात् ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति भगवद्वचनदर्शनाच्च कर्मभ्य एव परं श्रेयः ; नच विद्यावैयर्थ्यं शङ्कनीयम् , तस्याः कर्मशेषत्वाभ्युपगमात् , तत्फलवचनस्यात एवार्थवादत्वान्न तद्विरोधोऽपीति भावः ।

उपनिषज्जन्याया विद्यायाः कर्मशेषत्वे हेतुमाह —

समस्तेति ।

समस्तवेदार्थज्ञानवतः कर्माधिकारे मानमाह —

वेद इति ।

रहस्यान्युपनिषदः ।

समस्तवेदार्थज्ञानवतः कर्माधिकारेऽप्युपनिषदर्थज्ञानस्य कर्माङ्गत्वे किमायातम् ? तत्राह —

अधिगमश्चेति ।

सरहस्य इति विशेषणादुपनिषत्प्रयोजनभूतेनात्मविज्ञानेन सहैव वेदार्थावगमो गुरुकुले सम्पादनीय इति स्मृत्यर्थोऽवगम्यते ; तथा च कर्मकाण्डार्थज्ञानवद्वेदान्तार्थज्ञानस्यापि कर्माङ्गत्वमायातीति भावः ।

आत्मविद्यायाः कर्माङ्गत्वे हेत्वन्तरमाह —

विद्वानिति ।

सर्वत्र वेदे विद्वान्यजते विद्वान्याजयति इति समस्तवेदार्थज्ञानरूपविद्यावत एव यतोऽधिकारः प्रदर्श्यते, ततोऽप्यात्मज्ञानस्य कर्मशेषत्वमित्यर्थः ।

समस्तवेदार्थज्ञानवतः कर्माधिकारे स्मृत्यन्तरमाह —

ज्ञात्वेति ।

‘ज्ञात्वानुष्ठानम्’ इति स्मृत्या च विदुष एव कर्मण्यधिकारः प्रदर्श्यत इति योजना ।

एवमौपनिषदात्मज्ञानस्य तत्फलवचनस्य च कर्मशेषत्वप्रदर्शनेन कृत्स्नस्य वेदस्य कर्मपरत्वमुक्तम् । तत्र जैमिनिशबरस्वामिसंमतिमाह —

कृत्स्नश्चेति ।

तदुक्तं जैमिनिना - ‘आम्नास्यस्य क्रियार्थत्वात् - ’ इति ; शबरस्वामिना चोक्तम् - ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इति । तस्य वेदस्यार्थः प्रयोजनम् ।

एवं कर्मणामेव मुक्तिहेतुत्वं प्रसाध्य विपक्षे दण्डमाह —

कर्मभ्यश्चेदिति ।

अनर्थकः स्यादिति ।

परमपुरुषार्थपर्यवसायी न स्यात् । न चेष्टापत्तिः, अध्ययनविधिविरोधप्रसङ्गात् । अध्ययनविधिना हि समस्तस्य वेदस्याभ्युदयनिःश्रेयसफलवदर्थावबोधपरत्वमापादितम् । तस्मात्कर्ममात्रसाध्यो मोक्ष इति स्वीकर्तव्यमिति स्थितम् । विद्याया मुक्तिहेतुत्वेऽपि न केवलायास्तस्यास्तद्धेतुत्वम् , ‘विद्यां चाविद्यां च’ इति श्रुत्या विद्याकर्मसमुच्चयस्य मुक्तिहेतुत्वावगमात् ।

समुच्चयेऽपि ‘कर्मणैव हि संसिद्धिम्—’ इत्यादिवचनानुरोधेन कर्मप्राधान्यपक्षः, ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इत्यादिवचनानुरोधेन समप्राधान्यपक्षः, ’ब्रह्मविदाप्नोति परम्’ इत्यादिवचनानुरोधेन विद्याप्राधान्यपक्ष इति विभागः । इदं च समुच्चयपक्षोपपादनं स्पष्टत्वादुपेक्षितं भाष्यकारेणेति मन्तव्यम् । तत्र केवलकर्मजन्यो मोक्ष इति पक्षं निराकरोति —

नेत्यादिना ।

नित्यो हीति ।

मोक्षस्य नित्यत्वे ‘न स पुनरावर्तते’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।

कर्मकार्यस्यापि तस्य नित्यत्वं किं न स्यादित्याशङ्क्याह —

कर्मकार्यस्य चेति ।

ततः किम् ? तत्राह —

कर्मभ्यश्चेदिति ।

अनित्यमिति च्छेदः ।

अनित्यत्वे इष्टापत्तिं वारयति —

तच्चेति ।

मुक्तस्यापि पुनः संसारप्रसङ्गादिति भावः ।

पूर्ववादी प्रकारान्तरेण मोक्षस्य विद्यानैरपेक्ष्यं शङ्कते —

काम्येति ।

मुमुक्षुणा जन्मप्रायणयोरन्तराले सर्वात्मना काम्यनिषिद्धयोरनारम्भान्न तस्य तन्निमित्ता भाविजन्मप्राप्तिः ; पूर्वजन्मसु सञ्चितस्य कर्माशयस्य सर्वस्यैव वर्तमानदेहारम्भकत्वाभ्युपगमेनारब्धफलस्य तस्य कर्मण उपभोगेन क्षयात् न तन्निमित्ता च भाविजन्मप्राप्तिः ; नित्यनैमित्तिकानां साकल्येनानुष्ठानात्प्रत्यवायानुत्पत्तौ प्रत्यवायनिमित्ता च न जन्मप्राप्तिः ; न चान्यज्जन्मनिमित्तमस्ति ; तस्माद्विद्यानपेक्षो मोक्ष इत्यर्थः ।

निराकरोति —

तच्च नेति ।

मुमुक्षोर्वर्तमानदेहारम्भसमये कानिचिदेव कर्माणि वर्तमानदेहमारभन्ते न सर्वाणि, स्वर्गनरकमनुष्यादिविरुद्धफलानां कर्मणामेकदेहारम्भकत्वासम्भवात् ; अतः शेषकर्मसम्भवात्तदपि मतं न सम्भवतीत्यर्थः ।

ननु शेषकर्मसम्भवेऽपि यथावर्णितचरितस्य मुमुक्षोर्ज्ञाननिरपेक्ष एव जन्माभावलक्षणो मोक्षः सिध्यतीति मतं कुतो न सम्भवति ? तत्राह —

तन्निमित्तेति ।

शेषकर्मनिमित्तेत्यर्थः ।

प्रत्युक्तमिति ।

आद्यवाद इति शेषः ।

नन्वस्तु शेषकर्मसम्भवः, तथापि तस्य नित्यानुष्ठानेन नाशसम्भवान्न तन्निमित्ता शरीरोत्पत्तिरिति, तन्न ; नित्यानुष्ठानेन दुरितस्य क्षयसम्भवेऽपि न सुकृतस्य तेन क्षयः सम्भवति, नित्यानुष्ठानसञ्चितसुकृतयोरुभयोरपि शुद्धिरूपत्वेन विरोधाभावात् ; अतः सञ्चितसुकृतनिमित्ता शरीरोत्पत्तिरपरिहार्येति मत्वाह —

कर्मशेषस्य चेति ।

इति चेति ।

इति चाद्यवादे नित्यानुष्ठानस्य सुकृतक्षयहेतुत्वं प्रत्युक्तमित्यर्थः । अतो ज्ञानं विना सञ्चितकर्मक्षयासम्भवाज्ज्ञानापेक्ष एव मोक्षो न तन्निरपेक्ष इति भावः ।

उपनिषदर्थज्ञानस्यापि कर्मशेषत्वात्कर्मसाध्य एव मोक्ष इत्युक्तमनूद्य निराकरोति —

यच्चोक्तमित्यादिना ।

श्रुतज्ञानेन ।

गुरुकुले वेदान्तजनितं ज्ञानं श्रुतज्ञानम् , तस्य कर्मशेषत्वेऽपि तदतिरिक्तोपासनस्य मोक्षसाधनस्य सत्त्वान्न कर्मसाध्यो मोक्ष इत्यर्थः ।

ननु ‘वेदः कृत्स्नोऽधिगन्तव्यः’ इति वचनाद्यथा श्रुतज्ञानं कर्माधिकारिविशेषणतया कर्मशेषस्तथा मननाद्यात्मकमुपासनमपि तच्छेषोऽस्त्विति शङ्कां वारयति —

श्रुतज्ञानमात्रेण हीति ।

मात्रपदव्यवच्छेद्यमाह —

नोपासनमपेक्षत इति ।

मानाभावादिति शेषः ।

ननु श्रुतज्ञानादर्थान्तरभूतमुपासनं वेदान्तेषु मोक्षफलकत्वेन न क्वापि विधीयते, अतो नोपासनसाध्यो मोक्ष इति वदन्तं प्रत्याह —

उपासनं चेति ।

‘मन्तव्यो निदिध्यासितव्यः’ इत्युपासनविधानानन्तरमुपसंहारे ‘एतावदरे खल्वमृतत्वम्’ इति श्रवणादमृतत्वसाधनतया तत्रोपासनविधिः प्रतीयत इति भावः ।

ननु मननादिरूपमुपासनमपि श्रुतज्ञानान्नातिरिच्यते ब्रह्मप्रत्ययत्वाविशेषादिति ; नेत्याह —

अर्थान्तरप्रसिद्धिश्च स्यादिति ।

मनननिदिध्यासनयोर्ब्रह्मप्रत्ययत्वेऽपि श्रुतज्ञानादर्थान्तरत्वं प्रसिद्धमेव भवति, तयोर्विजातीयत्वात्पृथग्विधानाच्चेत्यर्थः ।

एतदेव विवृणोति —

श्रोतव्य इत्युक्त्वेति ।

मनननिदिध्यासनयोश्चेति ।

चकारोऽवधारणार्थः सन्प्रसिद्धपदेन सम्बध्यते । वस्तुतस्तु श्रुतज्ञानस्यापि नास्ति कर्मशेषत्वे मानम् । न चाध्ययनविधिबलाद्गुरुकुले सम्पादितसमस्तवेदार्थज्ञानमध्यपातिनस्तस्यापि कर्मज्ञानवत्कर्माङ्गत्वं प्रतीयत इत्युक्तमिति वाच्यम् ; अध्ययनविधेरक्षरावाप्तिमात्रफलकत्वेनार्थावबोधपर्यन्तत्वासिद्धेः । न च तथा सति विचारविध्यभावात्पूर्वोत्तरमीमांसयोरप्रवृत्तिप्रसङ्ग इति वाच्यम् ; अर्थज्ञानं विनानुष्ठानासम्भवेन तत्तत्क्रतुविधिभिरेव पूर्वमीमांसाप्रवृत्त्युपपत्तेः, उत्तरमीमांसाप्रवृत्तेः श्रोतव्यविधिप्रयुक्तत्वस्य ब्रह्मजिज्ञासासूत्रे स्फुटत्वात् , ‘विद्वान्यजते’ इति वचनस्य कर्मकाण्डगतस्य प्रकृततत्तत्कर्मविद्वत्तामात्रपरत्वेनात्मविद्वत्तापरत्वाभवात् , आत्मज्ञानस्य कर्मानुष्ठानप्रतिकूलताया वक्ष्यमाणत्वेन तच्छेषत्वानुपपत्तेश्च, ‘आम्नायस्य क्रियार्थत्वात्—’ इत्यादिवृद्धवचनजातस्य कर्मविचारप्रकरणगतत्वेन कर्मकाण्डमात्रविषयतायाः समन्वयसूत्रे स्पष्टत्वाच्च । तस्माच्छ्रुतज्ञानमपि न कर्मशेषः । अत एवात्मज्ञानफलश्रवणमर्थवाद इति शङ्कापि निरालम्बनेति बोध्यम् ।

इत्थं केवलकर्मभ्यः परं श्रेय इति पक्षं निरस्य कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयपक्षमुत्थापयति —

एवं तर्हीति ।

ननु नित्यस्य मोक्षस्य कर्मारभ्यत्वं न सम्भवति, कार्यस्यानित्यत्वनियमादित्युक्ते कथं तस्य विद्यासहितकर्मकार्यत्वशङ्का ? तत्राह —

विद्यासहितानां चेति ।

च-शब्दः शङ्कानिरासार्थः । विद्यालक्षणसहकारिमहिम्ना नित्यस्याप्यारम्भः सम्भवतीति भावः ।

कार्यान्तरेति ।

नित्यकार्येत्यर्थः ।

सहकारिसामर्थ्यात्कार्यवैचित्र्यमात्रे दृष्टान्तमाह —

यथेति ।

यथा स्वतो मरणरूपकार्यारम्भसामर्थ्यवतोऽपि विषस्य मन्त्रसंयुक्तस्य पुष्टिरूपकार्यान्तरारम्भसामर्थ्यम् , यथा वा दध्नः समयविशेषे ज्वररूपकार्यारम्भसामर्थ्यवतोऽपि तदा गुडशर्करादिसंयुक्तस्य तस्य तृप्तिमात्रारम्भसामर्थ्यम् , यथा वा वेत्रबीजस्य दावदग्धस्य कदल्यारम्भसामर्थ्यम् , एवं प्रकृतेऽपीत्यर्थः ।

अस्तु सहकारिवैचित्र्यात्कार्यवैचित्र्यम् , तावता आरभ्यस्यापि मोक्षस्यानित्यत्वप्रसङ्गदोषे किमागतमिति दूषयति —

नारभ्यस्येति ।

‘यत्कृतकं तदनित्यम्’ इति न्यायविरोधान्नित्यस्यारम्भो न सम्भवतीत्यर्थः ।

‘न स पुनरावर्तते’ इति वचनादारभ्यस्यापि मोक्षस्य नित्यत्वमविरुद्धमिति शङ्कते —

वचनादिति ।

वचनस्यानधिगतयोग्यार्थज्ञापकत्वेन पदार्थयोग्यतानाधायकत्वान्न वचनबलादारभ्यस्य नित्यत्वं सिध्यतीति दूषयति —

नेति ।

सङ्ग्रहवाक्यं विवृणोति —

वचनं नामेत्यादिना ।

ननु वचनमेवारभ्यस्य मोक्षस्य नित्यत्वं प्रति योग्यतामविद्यमानामप्याधाय पश्चान्नित्यत्वं तस्य ज्ञापयतीति ; नेत्याह —

नाविद्यमानस्य कर्त्रिति ।

कुत इत्यत आह —

न हीति ।

नित्यमिति ।

आत्मस्वरूपमिति शेषः ।

आरब्धं वेति ।

घटादीति शेषः । हि यस्माद्वचनशतेनापि नित्यस्यारम्भो लोके न दृश्यते तस्मान्नाविद्यमानस्य कर्त्रिति योजना । अन्यथा ‘अन्धो मणिमविन्दत्’ इत्यादावपि वचनबलादेव योग्यताप्रसङ्ग इति भावः ।

समसमुच्चयपक्षमप्यतिदेशेन निराकरोति —

एतेनेति ।

अनित्यत्वप्रसङ्गेनेत्यर्थः ॥