आद्यवादे केवलाया विद्याया मुक्तिसाधनत्वं साधितमपि विशिष्य समुच्चयनिराकरणेन पुनः साधयितुं चिन्तामुपक्रमते —
अत्रैतदिति ।
विद्याकर्मणोः फलभेदज्ञानार्थमेतद्वक्ष्यमाणं वस्तु चिन्त्यत इत्यर्थः ।
एवकारस्य व्याख्यानम् —
केवलेभ्य इति ।
उत विद्येति ।
विद्या परब्रह्मविद्या, उपसर्जनतया तत्सापेक्षेभ्य इत्यर्थः ।
विद्याकर्मणोः समप्राधान्यपक्षमाह —
आहोस्विदिति ।
विद्याप्राधान्यकोटिमाह —
विद्यया वेति ।
सिद्धान्तकोटिमाह —
उत केवलयैवेति ।
पूर्वपक्षमाह —
तत्रेत्यादिना ।
‘वेदमनूच्य’ इत्यादौ श्रुतेः कर्मस्वत्यन्तादरदर्शनात् ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति भगवद्वचनदर्शनाच्च कर्मभ्य एव परं श्रेयः ; नच विद्यावैयर्थ्यं शङ्कनीयम् , तस्याः कर्मशेषत्वाभ्युपगमात् , तत्फलवचनस्यात एवार्थवादत्वान्न तद्विरोधोऽपीति भावः ।
उपनिषज्जन्याया विद्यायाः कर्मशेषत्वे हेतुमाह —
समस्तेति ।
समस्तवेदार्थज्ञानवतः कर्माधिकारे मानमाह —
वेद इति ।
रहस्यान्युपनिषदः ।
समस्तवेदार्थज्ञानवतः कर्माधिकारेऽप्युपनिषदर्थज्ञानस्य कर्माङ्गत्वे किमायातम् ? तत्राह —
अधिगमश्चेति ।
सरहस्य इति विशेषणादुपनिषत्प्रयोजनभूतेनात्मविज्ञानेन सहैव वेदार्थावगमो गुरुकुले सम्पादनीय इति स्मृत्यर्थोऽवगम्यते ; तथा च कर्मकाण्डार्थज्ञानवद्वेदान्तार्थज्ञानस्यापि कर्माङ्गत्वमायातीति भावः ।
आत्मविद्यायाः कर्माङ्गत्वे हेत्वन्तरमाह —
विद्वानिति ।
सर्वत्र वेदे विद्वान्यजते विद्वान्याजयति इति समस्तवेदार्थज्ञानरूपविद्यावत एव यतोऽधिकारः प्रदर्श्यते, ततोऽप्यात्मज्ञानस्य कर्मशेषत्वमित्यर्थः ।
समस्तवेदार्थज्ञानवतः कर्माधिकारे स्मृत्यन्तरमाह —
ज्ञात्वेति ।
‘ज्ञात्वानुष्ठानम्’ इति स्मृत्या च विदुष एव कर्मण्यधिकारः प्रदर्श्यत इति योजना ।
एवमौपनिषदात्मज्ञानस्य तत्फलवचनस्य च कर्मशेषत्वप्रदर्शनेन कृत्स्नस्य वेदस्य कर्मपरत्वमुक्तम् । तत्र जैमिनिशबरस्वामिसंमतिमाह —
कृत्स्नश्चेति ।
तदुक्तं जैमिनिना - ‘आम्नास्यस्य क्रियार्थत्वात् - ’ इति ; शबरस्वामिना चोक्तम् - ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इति । तस्य वेदस्यार्थः प्रयोजनम् ।
एवं कर्मणामेव मुक्तिहेतुत्वं प्रसाध्य विपक्षे दण्डमाह —
कर्मभ्यश्चेदिति ।
अनर्थकः स्यादिति ।
परमपुरुषार्थपर्यवसायी न स्यात् । न चेष्टापत्तिः, अध्ययनविधिविरोधप्रसङ्गात् । अध्ययनविधिना हि समस्तस्य वेदस्याभ्युदयनिःश्रेयसफलवदर्थावबोधपरत्वमापादितम् । तस्मात्कर्ममात्रसाध्यो मोक्ष इति स्वीकर्तव्यमिति स्थितम् । विद्याया मुक्तिहेतुत्वेऽपि न केवलायास्तस्यास्तद्धेतुत्वम् , ‘विद्यां चाविद्यां च’ इति श्रुत्या विद्याकर्मसमुच्चयस्य मुक्तिहेतुत्वावगमात् ।
समुच्चयेऽपि ‘कर्मणैव हि संसिद्धिम्—’ इत्यादिवचनानुरोधेन कर्मप्राधान्यपक्षः, ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इत्यादिवचनानुरोधेन समप्राधान्यपक्षः, ’ब्रह्मविदाप्नोति परम्’ इत्यादिवचनानुरोधेन विद्याप्राधान्यपक्ष इति विभागः । इदं च समुच्चयपक्षोपपादनं स्पष्टत्वादुपेक्षितं भाष्यकारेणेति मन्तव्यम् । तत्र केवलकर्मजन्यो मोक्ष इति पक्षं निराकरोति —
नेत्यादिना ।
नित्यो हीति ।
मोक्षस्य नित्यत्वे ‘न स पुनरावर्तते’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।
कर्मकार्यस्यापि तस्य नित्यत्वं किं न स्यादित्याशङ्क्याह —
कर्मकार्यस्य चेति ।
ततः किम् ? तत्राह —
कर्मभ्यश्चेदिति ।
अनित्यमिति च्छेदः ।
अनित्यत्वे इष्टापत्तिं वारयति —
तच्चेति ।
मुक्तस्यापि पुनः संसारप्रसङ्गादिति भावः ।
पूर्ववादी प्रकारान्तरेण मोक्षस्य विद्यानैरपेक्ष्यं शङ्कते —
काम्येति ।
मुमुक्षुणा जन्मप्रायणयोरन्तराले सर्वात्मना काम्यनिषिद्धयोरनारम्भान्न तस्य तन्निमित्ता भाविजन्मप्राप्तिः ; पूर्वजन्मसु सञ्चितस्य कर्माशयस्य सर्वस्यैव वर्तमानदेहारम्भकत्वाभ्युपगमेनारब्धफलस्य तस्य कर्मण उपभोगेन क्षयात् न तन्निमित्ता च भाविजन्मप्राप्तिः ; नित्यनैमित्तिकानां साकल्येनानुष्ठानात्प्रत्यवायानुत्पत्तौ प्रत्यवायनिमित्ता च न जन्मप्राप्तिः ; न चान्यज्जन्मनिमित्तमस्ति ; तस्माद्विद्यानपेक्षो मोक्ष इत्यर्थः ।
निराकरोति —
तच्च नेति ।
मुमुक्षोर्वर्तमानदेहारम्भसमये कानिचिदेव कर्माणि वर्तमानदेहमारभन्ते न सर्वाणि, स्वर्गनरकमनुष्यादिविरुद्धफलानां कर्मणामेकदेहारम्भकत्वासम्भवात् ; अतः शेषकर्मसम्भवात्तदपि मतं न सम्भवतीत्यर्थः ।
ननु शेषकर्मसम्भवेऽपि यथावर्णितचरितस्य मुमुक्षोर्ज्ञाननिरपेक्ष एव जन्माभावलक्षणो मोक्षः सिध्यतीति मतं कुतो न सम्भवति ? तत्राह —
तन्निमित्तेति ।
शेषकर्मनिमित्तेत्यर्थः ।
प्रत्युक्तमिति ।
आद्यवाद इति शेषः ।
नन्वस्तु शेषकर्मसम्भवः, तथापि तस्य नित्यानुष्ठानेन नाशसम्भवान्न तन्निमित्ता शरीरोत्पत्तिरिति, तन्न ; नित्यानुष्ठानेन दुरितस्य क्षयसम्भवेऽपि न सुकृतस्य तेन क्षयः सम्भवति, नित्यानुष्ठानसञ्चितसुकृतयोरुभयोरपि शुद्धिरूपत्वेन विरोधाभावात् ; अतः सञ्चितसुकृतनिमित्ता शरीरोत्पत्तिरपरिहार्येति मत्वाह —
कर्मशेषस्य चेति ।
इति चेति ।
इति चाद्यवादे नित्यानुष्ठानस्य सुकृतक्षयहेतुत्वं प्रत्युक्तमित्यर्थः । अतो ज्ञानं विना सञ्चितकर्मक्षयासम्भवाज्ज्ञानापेक्ष एव मोक्षो न तन्निरपेक्ष इति भावः ।
उपनिषदर्थज्ञानस्यापि कर्मशेषत्वात्कर्मसाध्य एव मोक्ष इत्युक्तमनूद्य निराकरोति —
यच्चोक्तमित्यादिना ।
श्रुतज्ञानेन ।
गुरुकुले वेदान्तजनितं ज्ञानं श्रुतज्ञानम् , तस्य कर्मशेषत्वेऽपि तदतिरिक्तोपासनस्य मोक्षसाधनस्य सत्त्वान्न कर्मसाध्यो मोक्ष इत्यर्थः ।
ननु ‘वेदः कृत्स्नोऽधिगन्तव्यः’ इति वचनाद्यथा श्रुतज्ञानं कर्माधिकारिविशेषणतया कर्मशेषस्तथा मननाद्यात्मकमुपासनमपि तच्छेषोऽस्त्विति शङ्कां वारयति —
श्रुतज्ञानमात्रेण हीति ।
मात्रपदव्यवच्छेद्यमाह —
नोपासनमपेक्षत इति ।
मानाभावादिति शेषः ।
ननु श्रुतज्ञानादर्थान्तरभूतमुपासनं वेदान्तेषु मोक्षफलकत्वेन न क्वापि विधीयते, अतो नोपासनसाध्यो मोक्ष इति वदन्तं प्रत्याह —
उपासनं चेति ।
‘मन्तव्यो निदिध्यासितव्यः’ इत्युपासनविधानानन्तरमुपसंहारे ‘एतावदरे खल्वमृतत्वम्’ इति श्रवणादमृतत्वसाधनतया तत्रोपासनविधिः प्रतीयत इति भावः ।
ननु मननादिरूपमुपासनमपि श्रुतज्ञानान्नातिरिच्यते ब्रह्मप्रत्ययत्वाविशेषादिति ; नेत्याह —
अर्थान्तरप्रसिद्धिश्च स्यादिति ।
मनननिदिध्यासनयोर्ब्रह्मप्रत्ययत्वेऽपि श्रुतज्ञानादर्थान्तरत्वं प्रसिद्धमेव भवति, तयोर्विजातीयत्वात्पृथग्विधानाच्चेत्यर्थः ।
एतदेव विवृणोति —
श्रोतव्य इत्युक्त्वेति ।
मनननिदिध्यासनयोश्चेति ।
चकारोऽवधारणार्थः सन्प्रसिद्धपदेन सम्बध्यते । वस्तुतस्तु श्रुतज्ञानस्यापि नास्ति कर्मशेषत्वे मानम् । न चाध्ययनविधिबलाद्गुरुकुले सम्पादितसमस्तवेदार्थज्ञानमध्यपातिनस्तस्यापि कर्मज्ञानवत्कर्माङ्गत्वं प्रतीयत इत्युक्तमिति वाच्यम् ; अध्ययनविधेरक्षरावाप्तिमात्रफलकत्वेनार्थावबोधपर्यन्तत्वासिद्धेः । न च तथा सति विचारविध्यभावात्पूर्वोत्तरमीमांसयोरप्रवृत्तिप्रसङ्ग इति वाच्यम् ; अर्थज्ञानं विनानुष्ठानासम्भवेन तत्तत्क्रतुविधिभिरेव पूर्वमीमांसाप्रवृत्त्युपपत्तेः, उत्तरमीमांसाप्रवृत्तेः श्रोतव्यविधिप्रयुक्तत्वस्य ब्रह्मजिज्ञासासूत्रे स्फुटत्वात् , ‘विद्वान्यजते’ इति वचनस्य कर्मकाण्डगतस्य प्रकृततत्तत्कर्मविद्वत्तामात्रपरत्वेनात्मविद्वत्तापरत्वाभवात् , आत्मज्ञानस्य कर्मानुष्ठानप्रतिकूलताया वक्ष्यमाणत्वेन तच्छेषत्वानुपपत्तेश्च, ‘आम्नायस्य क्रियार्थत्वात्—’ इत्यादिवृद्धवचनजातस्य कर्मविचारप्रकरणगतत्वेन कर्मकाण्डमात्रविषयतायाः समन्वयसूत्रे स्पष्टत्वाच्च । तस्माच्छ्रुतज्ञानमपि न कर्मशेषः । अत एवात्मज्ञानफलश्रवणमर्थवाद इति शङ्कापि निरालम्बनेति बोध्यम् ।
इत्थं केवलकर्मभ्यः परं श्रेय इति पक्षं निरस्य कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयपक्षमुत्थापयति —
एवं तर्हीति ।
ननु नित्यस्य मोक्षस्य कर्मारभ्यत्वं न सम्भवति, कार्यस्यानित्यत्वनियमादित्युक्ते कथं तस्य विद्यासहितकर्मकार्यत्वशङ्का ? तत्राह —
विद्यासहितानां चेति ।
च-शब्दः शङ्कानिरासार्थः । विद्यालक्षणसहकारिमहिम्ना नित्यस्याप्यारम्भः सम्भवतीति भावः ।
कार्यान्तरेति ।
नित्यकार्येत्यर्थः ।
सहकारिसामर्थ्यात्कार्यवैचित्र्यमात्रे दृष्टान्तमाह —
यथेति ।
यथा स्वतो मरणरूपकार्यारम्भसामर्थ्यवतोऽपि विषस्य मन्त्रसंयुक्तस्य पुष्टिरूपकार्यान्तरारम्भसामर्थ्यम् , यथा वा दध्नः समयविशेषे ज्वररूपकार्यारम्भसामर्थ्यवतोऽपि तदा गुडशर्करादिसंयुक्तस्य तस्य तृप्तिमात्रारम्भसामर्थ्यम् , यथा वा वेत्रबीजस्य दावदग्धस्य कदल्यारम्भसामर्थ्यम् , एवं प्रकृतेऽपीत्यर्थः ।
अस्तु सहकारिवैचित्र्यात्कार्यवैचित्र्यम् , तावता आरभ्यस्यापि मोक्षस्यानित्यत्वप्रसङ्गदोषे किमागतमिति दूषयति —
नारभ्यस्येति ।
‘यत्कृतकं तदनित्यम्’ इति न्यायविरोधान्नित्यस्यारम्भो न सम्भवतीत्यर्थः ।
‘न स पुनरावर्तते’ इति वचनादारभ्यस्यापि मोक्षस्य नित्यत्वमविरुद्धमिति शङ्कते —
वचनादिति ।
वचनस्यानधिगतयोग्यार्थज्ञापकत्वेन पदार्थयोग्यतानाधायकत्वान्न वचनबलादारभ्यस्य नित्यत्वं सिध्यतीति दूषयति —
नेति ।
सङ्ग्रहवाक्यं विवृणोति —
वचनं नामेत्यादिना ।
ननु वचनमेवारभ्यस्य मोक्षस्य नित्यत्वं प्रति योग्यतामविद्यमानामप्याधाय पश्चान्नित्यत्वं तस्य ज्ञापयतीति ; नेत्याह —
नाविद्यमानस्य कर्त्रिति ।
कुत इत्यत आह —
न हीति ।
नित्यमिति ।
आत्मस्वरूपमिति शेषः ।
आरब्धं वेति ।
घटादीति शेषः । हि यस्माद्वचनशतेनापि नित्यस्यारम्भो लोके न दृश्यते तस्मान्नाविद्यमानस्य कर्त्रिति योजना । अन्यथा ‘अन्धो मणिमविन्दत्’ इत्यादावपि वचनबलादेव योग्यताप्रसङ्ग इति भावः ।
समसमुच्चयपक्षमप्यतिदेशेन निराकरोति —
एतेनेति ।
अनित्यत्वप्रसङ्गेनेत्यर्थः ॥