‘सह नाववतु’ इति शान्तिं प्रतीकग्रहणपूर्वकं व्याचष्टे —
सह नाववत्वित्यादिना ।
गुरोः कृतार्थत्वाच्छिष्य एव गुरोः स्वस्य च क्षेमं प्रार्थयत इत्याह —
रक्षत्विति ।
ब्रह्मेति शेषः ।
भोजयत्विति ।
पालयत्वित्यर्थः । यथा गुरुर्निरालस्य उपदिशति यथा चाहमुपदिष्टमर्थमप्रतिपत्तिविप्रतिपत्त्यादिरहितो गृह्णामि तथा पालयत्विति भावः ।
विद्यानिमित्तमिति ।
मम विद्योदयं प्रति निमित्ततया यदावयोः सामर्थ्यमपेक्षितमूहापोहादिलक्षणं तत्सहितावेव निर्वर्तयावहै इत्यर्थः ।
अधीतमिति ।
आवयोः सम्बन्धि यदधीतमुपनिषद्ग्रन्थजातं तत्तेजस्व्यस्त्विति योजना ।
अधीतस्य तेजस्वित्वं सौष्ठवमित्याह —
स्वधीतमिति ।
अपेक्षितब्रह्मविद्योपयोगित्वेन तदेव सौष्ठवं निरूपयति —
अर्थज्ञानेति ।
ननु शिष्याचार्ययोर्द्वेषो न प्रसज्यते परस्परमत्यन्तहितैषित्वादित्याशङ्क्याह —
विद्येति ।
विद्याग्रहणं निमित्तीकृत्य कदाचिद्वैमनस्यरूपो द्वेषो प्रसज्यत इत्यर्थः ।
तस्यापि स्वारसिकत्वं व्यावर्तयति —
प्रमादेति ।
अन्यकृतदुर्बोधनादिना शिष्यस्याचार्यविषयेऽनादररूपोऽपराधो भवति, तथा आचार्यस्यापि शिष्यविषये तादृग्विध एवापराधो भवति, इदं च लोके प्रसिद्धमिति भावः । शिष्येण तावत्स्वविषये आचार्यकर्तृकद्वेषोऽवश्यं परिहर्तव्यः, इतरथा अविद्यानिवृत्तिपर्यन्तविद्योदयासम्भवात् ; तदुक्तं वार्त्तिके - ‘स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणे गुरौ’ इति ; तथा स्वस्याचार्यविषयकद्वेषोऽपि सम्यक्परिहर्तव्यः, तस्य तद्भक्तिविघटकत्वेन भक्तिहीनस्य तादृशविद्योदयासम्भवात् । तथा च श्रुतिः - ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इतीति भावः ।
उक्तार्थमिति ।
त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थमिति ग्रन्थेनेति शेषः ।
सह नाववत्विति शान्तेर्वक्ष्यमाणविद्याशेषत्वं निर्विवादमित्याशयेनाह —
वक्ष्यमाणेति ।
‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः’ इत्यादिवचनैरात्मविद्याप्राप्तौ विघ्नबाहुल्यावगमात्तन्निवृत्तिरवश्यं प्रार्थनीयेत्याह —
अविघ्नेन हीति ।
इतरथा तत्प्राप्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।
ननु मुमुक्षुणा आत्मविद्याप्राप्तिः किमर्थमाशास्यते ? तत्राह —
तन्मूलं हीति ।
प्रकृष्टश्रेयसो मोक्षस्यात्मविद्यामूलकत्वे ‘तरति शोकमात्मवित्’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः ॥