तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीति चेत् , न ; युगपदनंशत्वात् । न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम् । न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशः अर्थवान् । तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति ; सन्मात्रत्वं च सत्यम् , ‘तत् सत्यम्’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः । ‘ज्ञानं ब्रह्म’ इति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते । ‘ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वम् , लौकिकस्य ज्ञानस्य अन्तवत्त्वदर्शनात् । अतः तन्निवृत्त्यर्थमाह - अनन्तमिति । सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य च ब्रह्मणः उत्पलादिवदप्रसिद्धत्वात् ‘मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः’ इतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत् , न ; लक्षणार्थत्वात् । विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम । शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनम् । अतः लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव । शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यर्थैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वमुपपद्यते । ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । तत्र अनन्तशब्दः अन्तवत्त्वप्रतिषेधद्वारेण विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः ॥

नन्वात्मनश्चिज्जडरूपांशद्वयोपेतत्वाच्चिदंशेन ज्ञाता जडांशेन ज्ञेयश्च भविष्यति, अतो न ज्ञात्रभावप्रसङ्ग इति भट्टमतमाशङ्क्य निषेधति –

एक एवेति ।

नेति ।

निष्फलश्रुत्या आत्मनो निरवयवत्वावगमात्सावयवस्यानित्यत्वनियमाच्च तन्मतं न युक्तमित्यर्थः ।

ननु निरवयवस्यापि युगपदेकज्ञानक्रियानिरूपितं कर्तृत्वं कर्मत्वं च किं न स्यादित्याशङ्क्य स्वात्मनि चेत्यत्रोक्तामेवानुपपत्तिं स्मारयति –

न हीति ।

स्वात्मनो लौकिकज्ञानकर्मत्वोपगमे तदुपदेशानर्थक्यप्रसङ्गाच्च न स्वज्ञातृत्वे भूमवाक्यस्य ‘सत्यं ज्ञानम् ‘ इत्यत्र ज्ञानपदस्य च तात्पर्यमित्याह –

आत्मनश्चेति ।

तस्मादिति ।

ज्ञातुर्ज्ञेयज्ञानाभ्यां प्रविभक्तत्वादित्यर्थः ।

ब्रह्मणो ज्ञातृत्वे सत्यत्वानुपपत्तिमप्युक्तां समारयति –

सन्मात्रत्वं चेति ।

ज्ञानकर्तृत्वादिविशेषवत्त्वं ज्ञानतदनुकूलक्रियादिरूपपरिणामवत्त्वं परिणामिनश्च मिथ्यात्वावश्यम्भावाद्बाधायोग्यत्वरूपं सन्मात्रत्वमनुपपन्नमित्यर्थः ।

ननु सन्मात्रत्वानुपत्तावपि मन्त्रोक्तसत्यत्वानुपपत्तौ किमागतममित्यत आह –

सन्मात्रं च सत्यमिति ।

सद्वस्तु प्रकृत्य ‘तत्सत्यम्’ इति वदता श्रुत्यन्तरेण सन्मात्रसत्ययोरभेदप्रतिपादनात्सन्मात्रत्वानुपपत्तिः सत्यत्वानुपत्तिरेवेत्यर्थः ।

ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वानन्तत्वयोरयोगाज्ज्ञानशब्दस्य भावसाधनत्वमेवेत्युपसंहरति –

तस्मादिति ।

ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितमाह –

ज्ञानमिति ।

यदुक्तं सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धौ विकारभिन्नत्वात्कारणत्वं प्राप्तम् , कारणस्य च कारकत्वं मृदादिवदचिद्रूपता च प्राप्ता, अत इदमुच्यते ज्ञानं ब्रह्मेतीति, ज्ञानविशेषणफलं तदत्र सिद्धमिति बोध्यम् । ज्ञानशब्दस्य ज्ञानकर्तृपरत्वनिराकरणपरेण ग्रन्थेनार्थाज्ज्ञायते यत्तज्ज्ञानमिति कर्मव्युत्पत्तिप्राप्तं कर्मकारकत्वमपि स्वात्मनि च भेदाभावादित्यादिना निरस्तम् ; एवं ज्ञायतेऽनेनेति व्युत्पत्तिप्राप्तं करणकारकत्वमपि ब्रह्मरूपस्यात्मनो न सम्भवति, तस्य करणत्वे ज्ञात्रभावप्रसङ्गात् , इदमपि प्रागात्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्ग इत्यत्रोक्तप्रायमेव ; तथा ज्ञानकर्तृत्वनिराकरणेनाधिकरणकारकत्वमपि निरस्तम् ; एवं ज्ञानपदस्य कारकान्तरपरत्वनिराकरणमपि सिद्धवत्कृत्य कर्त्रादीत्यादिग्रहणमिति मन्तव्यम् ।

निवृत्त्यर्थं चेति ।

यद्यपि भावसाधनो ज्ञानशब्दो ज्ञप्तिक्रियावाची सा च क्रिया जडरूपा वृत्तिरिति वक्ष्यते, तथापि ज्ञानपदस्य चैतन्यलक्षकत्वं वक्ष्यमाणमभिप्रेत्याचिद्रूपतानिवृत्त्यर्थं चेत्युक्तमिति मन्तव्यम् ।

ज्ञानपदस्य वाच्यार्थमादाय शङ्कते –

ज्ञानं ब्रह्मेति वचनादिति ।

अनन्तमितीति ।

ब्रह्मणो ज्ञप्तिक्रियारूपत्वे सत्यानन्त्यायोगादानन्त्यसिद्धये ज्ञानपदेन चैतन्यमात्रं लक्षणीयमिति भावः ।

सत्यादिविशेषणैरनृतादिव्यावृत्तेरुक्तत्वादनृतादिव्यावृत्तिरेव सत्यादिपदवाच्यत्वेनोक्तेति मत्वा शङ्कते –

सत्यादीनामिति ।

ब्रह्मपदमप्यसदर्थकमेव, ब्रह्मणो मानान्तरासिद्धत्वेन तत्सत्त्वे मानाभावादित्याह –

विशेष्यस्य चेति ।

पदचतुष्टयस्याप्यसदर्थकत्वे फलितं सदृष्टान्तमाह –

मृगतृष्णेति ।

न चानृतादिव्यावृत्तेरन्योन्याभावरूपत्वेन शशशृङ्गादिवदसत्त्वाभावात्कथं शून्यार्थकतेति वाच्यम् ; सिद्धान्त्यभिमतवाक्यार्थनिषेधमात्रस्यात्र विवक्षितत्वात् ।

परिहरति –

नेति ।

ननु व्यावृत्त्यर्थत्वस्योक्तत्वात्कथं लक्षणार्थत्वमित्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –

विशेषणत्वेऽपि चेति ।

च-शब्दः शङ्कानिरासार्थः । सत्यादिपदत्रयस्य विशेषणत्वेऽपि व्यावृत्त्यर्थत्वेऽपि न व्यावृत्तेः शाब्दत्वमुपेयते, व्यावृत्तेरार्थिकत्वोपपत्तेः, अतो लक्षणरूपार्थपरत्वमेवेत्युक्तमित्यर्थः ।

अत एव ब्रह्मपदमपि नासदर्थकमित्याह –

शून्ये हीति ।

विशेषणत्वेऽपि च सत्यादीनां नासदर्थतेत्युक्तमेव प्रपञ्चयति –

विशेषणार्थत्वेऽपि चेत्यादिना ।

सत्यादिपदानां व्यावृत्तिप्रयोजनकत्वेऽपि स्वार्थस्य सन्मात्रादेः परित्यागो नास्त्येव ।

कुत इत्यत आह –

शून्यार्थत्वे हीति ।

सत्यादिपदानां शून्यार्थत्वे स्वार्थपरित्यागे सति विशेष्यं प्रति नियन्तृत्वानुपपत्तिः इतरव्यावृत्तिप्रयोजनकत्वस्य पूर्ववाद्यभिमतस्यानुपपत्तिः सत्यादिपदैर्ब्रह्मणि व्यावर्तकस्वरूपविशेषासमर्पणात् लोके नीलादिपदैरुत्पले नैल्यादिरूपविशेषे समर्पिते सत्येव रक्तादिव्यावृत्तिबोधदर्शनादिति हि-शब्दार्थः ।

एवं व्यतिरेकमुक्त्वान्वयमाह –

सत्याद्यर्थैरिति ।

सत्यादिपदानामिति शेषः ।

तद्विपरीतेति ।

सत्यत्वादिधर्मविपरीता अनृतत्वादिधर्माः, तद्वन्तोऽनृतजडपरिच्छिन्नाः पदार्थाः, तेभ्य इत्यर्थः । ब्रह्मणः विशेष्यस्य इति षष्ठ्यौ द्वितीयार्थे ।

यदुक्तं विशेष्यस्य ब्रह्मण उत्पलादिवदप्रसिद्धत्वादसत्त्वमिति, तत्राह –

ब्रह्मशब्दोऽपीति ।

स्वार्थेनेति ।

वृद्धिमत्त्वेनेत्यर्थः । न च पदमात्रस्याप्रमाणत्वादुत्पलादिवन्मानान्तराप्रसिद्धत्वाच्च न तस्य सत्त्वसिद्धिरिति वाच्यम् , मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वमनुमीयते, एवं सर्वाधिष्ठानतयानुमानोपस्थिते वृद्धिमति ब्रह्मशब्दस्य शक्तिग्रहाभ्युपगमान्न तस्यासत्त्वशङ्का, न चैतमनुमानादेव ब्रह्मसिद्धेः श्रुत्यादिवैयर्थ्यमिति वाच्यम् , तस्य स्वरूपविशेषावगतेः श्रुत्यधीनत्वाभ्युपगमादिति भावः ।

ब्रह्मस्वरूपलक्षणसमर्पकेषु सत्यादिपदेषु त्रिष्वावन्तरभेदमाह –

तत्रेति ।

अनन्तशब्दः परिच्छेदाभावबोधनद्वारा ब्रह्मणो विशेषणं परिच्छिन्नाद्व्यावर्तकमित्यर्थः ।

सत्यज्ञानशब्दौ त्विति ।

अनन्तशब्दस्येव सत्यज्ञानशब्दयोरभावबोधद्वारकत्वं नास्तीति विशेषार्थकस्तु-शब्दः ।

तमेव विशेषं विवृणोति –

स्वार्थेति ।

सच्चिद्रूपत्वलक्षणस्वार्थबोधनद्वारेणैव विशेषणे भवतः अनृतादिव्यावर्तकौ भवतः नाभावसमर्पणद्वारेणेत्यर्थः । अत्र ब्रह्मण्यनन्तपदसमर्पितः परिच्छेदाभावो ब्रह्मस्वरूपमेव, परिच्छेदस्य कल्पितत्वेन कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ॥