तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
तस्मात् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते ; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम् । यद्ब्रह्म आदौ ब्राह्मणवाक्येन सूत्रितम् , यच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनन्तरमेव लक्षितम् , तस्मादेतस्माद्ब्रह्मण आत्मनः आत्मशब्दवाच्यात् ; आत्मा हि तत् सर्वस्य, ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् ; अतो ब्रह्म आत्मा ; तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपात् आकाशः सम्भूतः समुत्पन्नः । आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम् । तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणः वायुः, सम्भूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणः अग्निः सम्भूतः । अग्नेश्च स्वेन रसगुणेन पूर्वैश्च त्रिभिः चतुर्गुणा आपः सम्भूताः । अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्च चतुर्भिः पञ्चगुणा पृथिवी सम्भूता । पृथिव्याः ओषधयः । ओषधीभ्यः अन्नम् । अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरः - पाण्याद्याकृतिमान् । स वै एष पुरुषः अन्नरसमयः अन्नरसविकारः पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजःसम्भूतं रेतो बीजम् । तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात् ; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गृह्यते ? प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, ‘पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामतमीक्षतीत्येवं सम्पन्नः ; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्’ इत्यादि श्रुत्यन्तरदर्शनात् ॥

इत्थं सृष्टिवाक्यतात्पर्यार्थमानन्त्यं निरूप्याक्षराणि व्याचष्टे –

तस्मादित्यादिना ।

यथालक्षितमिति ।

परामृश्यत इत्यनुषङ्गः ।

उक्तं सर्वनामद्वयार्थमनुवदन्नेव वाक्यार्थमाह –

यदित्यादिना ।

ननु प्रतीच एवात्मशब्दवाच्यत्वात्कथं ब्रह्मण आत्मशब्दवाच्यत्वमित्याशङ्क्याह –

आत्मा हीति ।

तत् ब्रह्म सर्वस्य भोक्तृवर्गस्य आत्मा वास्तवं स्वरूपमित्यर्थः ।

तत्र हि-शब्दसूचितं मानमाह –

तत्सत्यमिति ।

आत्मेति ।

आत्मशब्दवाच्यमित्यर्थः ।

आकाशस्य लक्षणं स्वरूपं चाह –

आकाशो नामेत्यादिना ।

तस्माच्चेति ।

चकार आत्मसमुच्चयार्थः । तथा च आकाशतादात्म्यापन्नादात्मनः सकाशादेव वायुः सम्भूत इत्यर्थः । एवमुत्तरत्रापि पूर्वपूर्वभूततादात्म्यापन्नादुत्तरोत्तरभूतस्योत्पत्तिरवगन्तव्या ‘तदभिध्यानादेव तु’ इत्यादौ तथा व्यस्थापितत्वादिति मन्तव्यम् । अग्निशब्दस्तेजःसामान्यपरः ।

पृथिव्या इति ।

अत्र पञ्चम्याः प्रकृत्यर्थत्वात्पूर्वत्रापि पञ्चम्यः प्रकृत्यर्था एवेति मन्तव्यम् । ओषधयः सम्भूताः, अन्नं सम्भूतम् , पुरुषः सम्भूत इति सर्वत्र क्रियापदं द्रष्टव्यम् । ‘अन्नात्पुरुषः’ इति वाक्योक्तं पुरुषस्यान्नविकारत्वं व्याख्यातुम् ‘स वा एषः’ इत्युत्तरवाक्यं प्रवृत्तम् अतो न पौनरुक्त्यमिति मन्तव्यम् ।

रसशब्दितस्य रेतसः पुरुषाकृतिनियामकत्वमाह –

पुरुषाकृतीति ।

पितुः पुरुषाकृत्या भावितं संस्कृतं सत् पितुरङ्गेभ्यः सकाशात्सम्भूतमित्यर्थः ।

तेज इति ।

सर्वेषामङ्गानां सारभूतमित्यर्थः । तथा च श्रुतिः – 'यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ इति ।

तस्मादिति ।

पुरुषाकृतिभाविताद्रेतोरूपाद्बीजादित्यर्थः ।

पुरुषग्रहणस्य तात्पर्यं वक्तुमाक्षेपमवतारयति –

सर्वेषामपीति ।

पश्वादीनामपरीत्यर्थः । क्रमेण ब्रह्मविकारत्वं ब्रह्मवंश्यत्वम् ।

समाधत्ते –

प्राधान्यादिति ।

यदि प्राधान्यं भक्षणादिविषये तदा पश्वादीनामेव प्राधान्यं स्यादित्याशयेन शङ्कते –

किं पुनरिति ।

कर्मज्ञानाधिकारित्वमत्र प्राधान्यम् , तच्च मनुष्यस्यैव न पश्वादीनामित्याह –

कर्मेति ।

तदुक्तं सूत्रकारेण - ‘मनुष्याधिकारत्वाद् ‘ इति ।

अधिकारमेव साधयति –

पुरुष एव हीति ।

हि-शब्दसूचितान्हेतूनाह –

शक्तत्वादर्थित्वाच्चेति ।

विधिनिषेधविवेकसामर्थ्योपेतत्वाच्छास्त्रोक्तस्वर्गादिफलार्थित्वसम्भवादित्यर्थः । अपर्युदस्तत्वादिहेत्वन्तरसङ्ग्रहार्थश्चकारः ।

पुरुषस्य यथोक्तसामर्थ्याद्युपेतत्वे श्रुतिमाह –

पुरुषे त्वेवेति ।

ब्राह्मण्यादिजातिमति मनुष्यदेह एवाविस्तरामतिशयेन प्रकट आत्मा ज्ञानाद्यतिशयवानित्यर्थः ।

एतदेवानुभवेन साधयति –

स हीत्यादिना ।

श्वस्तनं परेद्युर्भाविनम् । लोको भोग्यः, तत्साधनमलोकः । मर्त्येन विनाशार्हेण ज्ञानकर्मादिसाधनेनाक्षयं फलमाप्तुमिच्छतीत्यर्थः ।

साधितं ज्ञानातिशयमुपसंहरति –

एवं सम्पन्न इति ।

येन ज्ञानाद्यतिशयेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –

अथेतरेषामिति ।

तेषां बुभुक्षादिविषयकज्ञानमेवास्ति न पूर्वोक्तमित्यर्थः ।