तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं च अन्तःसोपाधिकमात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलम् । न चैतावता अशेषतः संसारबीजस्य उपमर्दनमस्ति । अतः अशेषोपद्रवबीजस्य अज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते -

वृत्तानुवादपूर्वकमानन्दवल्ल्यास्तात्पर्यमाह –

संहितादीत्यादिना ।

­वक्ष्यमाणविद्यावैलक्षण्यार्थमाह –

कर्मभिरविरुद्धानीति ।

कर्मभिरविरुद्धमेवान्यदप्युपासनमुक्तमित्याह –

अनन्तरं चेति ।

ननु कर्मसमुच्चितेन व्याहृतिशरीरब्रह्मोपासनेन स्वाराज्यप्रापकेणैव सबीजस्य संसारस्य निवृत्तिसम्भवात्किं निरुपाधिकब्रह्मविद्यारम्भेणेत्याशङ्क्याह –

न चैतावतेति ।

कर्मसमुच्चितेनापि सोपाधिकात्मदर्शनेनेत्यर्थः ।

अत इति ।

सोपाधिकात्मदर्शनस्याधिष्ठानयाथात्म्यदर्शनरूपत्वाभावेनाशेषसंसारबीजोपमर्दने सामर्थ्यरहितत्वादित्यर्थः ।